SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ करुणरसकदम्बकम् ८३ तत् पड्डका मया किं, त्यक्ता वा त्याजिता अधमबुद्धया ? । लघुवत्सानां मात्रा, समं वियोगः कृतः किं वा ? ॥ १४ ॥ तेषां दुग्धापायोऽकारि मया कारितोऽथवा लोकैः । किं वा सवालकोन्दुरु-बिलानि परिपूरितानि जलैः ? ॥ १५॥ किं वा साण्डशिशून्यपि, खगनीडानि प्रपातितानि भुवि । पिकशुककुर्कुटकादेलिवियोगोऽथवा विहितः ॥ १६ ॥ किं वा बालकहत्याऽकारि सपत्नीसुताद्युपरि दुष्टम् । चिन्तिमचिन्त्यमपि वा कृतानि किं कार्मणादीनि ? ॥१७॥ किं वा गर्भस्तम्भनशातनपातनमुख मया चक्रे ? । तन्मन्त्रभेषजान्यपि, किं वा मयका प्रयुक्तानि ? ॥१८॥ अथवा भवान्तरे किं ? मया कृतं शीलखण्डनं बहुशः । यदिदं दुःखं तस्माद्विना न संभवति जीवानाम् ॥ १९ ॥ यत: कुंरंडरंडत्तणदुब्भगाई, वंज्झत्तनिंदूविसकन्नगाई । लहंति जम्मंतरभग्गसीला, नाऊण कुजा दढसोलभावं ॥२०॥ एवं चिंताऽऽक्रांता, ध्यायंती म्लानकमलसमवदना । दृष्टा शिष्टेन सखी-जनेन, तत्कारणं पृष्टा ॥ २१ ॥ प्रोवाच साश्रलोचनरचना निःश्वासकलितवचनेन । किं मन्दभागधेया, वदामि ? यज्जीवितं मेऽगात् ॥ २२ ॥ १ कुरण्डत्वरंडत्यदुर्भगत्वानि वन्ध्यत्वनिंदु (मृतापत्यप्रसूः) विषकन्यकत्वादि । लभन्ते जन्मान्तरभग्नशीला ज्ञात्वा कुर्यात् दृढशीलभावं ॥ २ जम्मंतरे खंडिअसीलभावा इति तृतीयपादपाठः पुस्तकान्तरे । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034534
Book TitleKarunras Kadambakam
Original Sutra AuthorN/A
AuthorKasturvijay Gani
PublisherJivanbhai Chotalal Sanghvi
Publication Year1941
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy