________________
३४
करुणरसकदम्बकम्
सुप्तामेकाकिनी मुग्धां विश्वन्तां त्यजतः सतीम् । उत्सहाते कथं पादौ नैषधेरल्पमेधसः ॥ ९६२ ।। मुहुर्मुहुः पट्यमानं तच्छ्रुत्वा दयितां स्मरन् । रुरोदानर्गलगलन्नयनाजजलो नलः ॥ ९६३ ॥ कि रोदिषीति ? विप्रेण पृष्टः प्रोवाच हुण्डिकः । गीतं ते मज करुणरसमाकर्ण्य रोदिमि ।। ९६४ ॥ कुब्जेन पृष्टः श्लोकार्थ स विनोऽकथयत् कथाम् । आ द्यूतात्कुण्डिनपुरे वैदर्भीगमनावधि ॥ ९६५ ॥ पुनराख्यदहो कुब्ज ! सूर्यपाकेन सूपकृत् । सुसुमारेशदूतेनाख्यातस्त्वं भीमभूपतेः ॥ ९६६ ॥ एवंविधचरित्रण नलो भवति नापरः । भैम्येति भीममभ्यर्थ्य त्वां द्रष्टुं प्रेषितोऽस्म्यहम् ॥ ९६७ ॥ अचिंतयं च त्वां दृष्ट्वा क कुञ्जस्त्वं दुराकृतिः । क्क नलो देवतारूपः ? क खद्योतः क भास्करः ? ॥ ९६८ ॥ मम चागच्छतोऽभूवच्छकुनानि शुभानि तु । तानि सर्वाण्यन्यथा त्वं ययुन सि नलो यतः ॥ ९६९ ॥ दवदन्तीं हृदि ध्यायन् रुदन् कुब्जोऽधिकाधिकम् । उपरुध्य गृहेऽनैषीत्तं विप्रनिति चावदत् ॥ ९७० ॥
त्रिषष्टिः १० ८, स० ३, पृ० ७३ ।
१ पाककृत् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com