________________
गणककुमुदकौमुदीटीकासमेतम् । ( २५ )
निघ्नो नख २० हत्तदूनं युक्तं गतैष्यैक्यदलं स्फुटं स्यात्क्रमो - त्क्रमज्याकरणेऽत्र भोग्यम्” ॥ यथा चतुर्विंशत्यंशानां २४ ज्यायां साध्यमानायां दशामा लब्धं २ शेषं ४ गतखण्डं २० भोग्यखण्डं १९ अनयोरैक्यात ३९ अर्द्ध १९ । ३० क्रमज्यात्वादूनितं १९ । १८ स्फुटं भोग्यखण्डं जातं ततो भोग्यनिनाः शेषांशका इत्यादि कर्म स्फुटं भोग्यखण्डेन कार्यमिति कृते जाता ज्या ४८ । ४३ इयं परमक्रान्तिज्या ज्ञेया, अथ धनुःकरणे भोग्यखण्डस्फुटीकरणं सिद्धान्ताद्यथा - " विशोध्य खण्डान्यथ शेषकार्द्धनिघ्नं गतैष्यान्तरमेष्यनक्तम्। फलोनयुग्भोग्यगतैष्यखण्डं चापार्थमेवं स्फुटभोग्य खण्डम् ” इत्यादिना गतैष्ययोरन्तरम् १ शेषांशैः ४ गुणितम् ४ नखैः २० भक्तम् ० | १२ अनेन भक्तं 'फलोनयुग्भोग्यगतैष्यखण्डं चापार्थमेवं स्फुटभोग्यखण्डम् ' ॥ यथा जिनां राज्यायां ४८ | ४ ३ धनुःकरणे विशोध्य खण्डानि २१।२० शेषम् ७।४३ अस्यार्द्धेन ३ । ५२ गतैष्यान्तरम् १ गुणितम् ३ । ५२ गम्येन १९ भाजितम् ०।१२ लब्धेन गतैष्यार्द्धम् १९।३० क्रमधनुःकरणत्वादूनम् १९ १८ स्फुटभोग्यखण्डं जातम्, अशुद्धलब्धमित्ययं विधिरनेन कार्यः जातं धनुः २४ इत्यन्यच्च सूक्ष्मतामिच्छता विधेयम् ॥ ८ ॥
"
O
अथ सूर्यादीनां मन्दफलानयनमिन्द्रवज्जो पजातिभ्यामाह
सूर्यादिकानां मृदुकेन्द्रदोर्ज्या दिग्नी विभाज्याथ खपञ्चवाणैः। नागाग्निदत्रैर्गिरिपूर्णचन्द्रैर्वस्वङ्कभूभि
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com