________________
(१६) करणकुतूहलम् । अब्दागजावै७८स्त्रिरसेश्दर्विभाजिता ऋणं विलिप्तासु शशीज्ययोःक्रमात् । विचः १३ खरामै३० द्वियमै २२ वखेचरैः ९पातोच्चसौम्यास्फुजितां धनं तथा ॥१६॥ इतीह भास्करोदिते ग्रहागमे कुतूहले।विदग्धबुद्भिवल्लभे नभोगमध्यसाधनम् ॥१॥
अब्दाः करणगताब्दाः गजाश्वैरष्टसप्ततिभिः ७८ भक्ता लब्धं शशिनश्चन्द्रस्य विकलास्वर्ण स्यात् । एवं त्रिरसैस्त्रिषष्टिभि ६३ लब्धं गुरोविकलास्वर्णम् । अथ विश्वत्रयोदशभिः १३ खरामैः ३० त्रिंशद्भिः द्वियमैाविंशद्भिः २२ खेचरैवभिः ९ लब्धं क्रमेण पातचन्द्रोच्चबुधशुक्राणां विकलासु धनं भवेत् । करणगताब्दाः ४३६ गजाश्वैः ७८ अक्ता लब्धं विकलाश्चन्द्रस्यर्णम् ५ पुनरब्दाः ४३६ विरसैः६३ भक्ता लब्धं विकलाः ६ गुरोर्कणम् । अब्दाः ४३६ विश्वैर्लब्धं विकलाः ३३ पातस्य धनम् । अब्दाः ४३६ त्रिंशद्भक्तं लब्धं विकलाः १४ चन्द्रोच्चस्य धनम् अब्दाः ४३६ द्वियमैः २२ भक्ता लब्धं विकलाः १९ बुधशीघोच्चस्य धनम् । अब्दाः ४३६ खेचरैः ९ भक्ता लब्धं विकलाः ४८ शुक्रशीघ्रस्य धनम् । रविभौमशनीनां नास्तीदकर्म । लोकैरब्दबीजत्वेन व्यवह्रियते । षट् कर्मणां नामान्युच्यन्ते देशान्तरम् १ अब्दबीजम् २ रामबीजम् ३ भांशफलम् ४ उदयान्तरम्५चरकर्म ६ तत्र देशान्तरमुक्तमन्दबीजं तु ग्रन्थकता क्षेपेष्वेव दत्तम् । अथ ग्रन्थारम्भतो यावत्प माणं बीजं तत्पत्रे लिखितं परं स्वल्पान्तरत्वादपेक्षितं राम
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com