________________
( १३६) करणकुतूहलम् । गत्याविधोः षष्टिगुणं गतष्यलब्धैर्दिनैः स्यात्खलु पातमध्यम् ॥ ९॥
आयेऽल्पचापांशमितो गुणः स्यादुभयोश्चापांशान्तरेण विचतुर्थे सति सम्भवे षष्ठं खण्डं गुणयेत्ते चापांशसमखण्डगुणरूपाः पञ्चदशायः संशोध्य शेषेण तृतीयपञ्चमखण्डं गुणयेदेवं सर्वाणि सगुण्य स्फुटानि च स्वांशघ्नसंज्ञकानि भवन्ति । एवं गुणकल्पनायां कृतायां किं कार्यमित्यत आह-जह्यादिति- तानि स्वांशनखण्डानि पञ्चदशन्नबाणात् पञ्चदशगुणितचन्द्रशरकलामध्ये यावन्ति शुद्धयन्ति तावन्ति शोधयेत्, शेषमशुद्धेन स्फुटखण्डकेन भजेन्नतु स्वांशघ्नेन फलं लवायं पाह्यं तद्विशुद्धखण्डांशयुते यावन्ति खण्डानि शुद्धानि तेषां ये गुणाश्चापांशोद्भवास्तेषां योगं कृत्वा तैरंशैर्युतं कुर्यात्ततः षट्या सडण्य चन्द्रगत्या भजेदिनादिकं ग्राह्यं पूर्व चेत्पातस्य लक्षणं गतमागतं तदा यस्मिन् काले द्वादशराशयो जातास्तस्मात्कालादधुनागतैर्दिनादिभिर्गतैः पातमध्यं स्यादित्यर्थः । अथ चेदेष्यलक्षणं तदा पूर्वोक्तकालादेतावद्भिर्दिनैर्गम्यैः पातमध्यं स्यादित्यर्थः । अथ तिथिप्नबाणस्य ८३२ । १५ स्वल्पत्वात्खण्डानि न शुद्धयन्ति तेन खण्डकानां गुणकान् कृत्वानेन शेषम् ८३२ । १५ अशुद्धस्फुटखण्डकेन३९२ अक्तं लब्धं लवादि० । २७ । २३ गुणकाभावाच्छुद्धखण्डांशानामिति ताः षष्टिगुणाः चन्द्रगत्या ७४१ । ५० भक्तं लब्धं दिनादि
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com