________________
( २१ ) द्रव्यनिक्षेपस्वरूपवर्णनम्। अथ द्रव्यस्वरूपमाह-भूतस्य भाविनो वा भावस्य हि कारणं तु यल्लोके । तत् द्रव्यं तत्वज्ञैः सचेतना चेतनं कथितम् ॥३॥ व्याख्या___ तत् द्रव्यं तत्वज्ञैः कथितं यत् कथं भूतं द्रव्यं यत् कारणं हेतुः कस्येत्याह । भावस्य पर्यायस्य कथं भूतस्येत्याह । भूतस्यातीतस्य भाविनो वा भाविष्यतो वा लोके आधारभूते तत्र सचेतनं पुरुषादि अचेतनं च काष्ठादि भवति । एतदुक्तं भवति यः पूर्व स्वर्गादिविंद्रादित्वेन भूत्वा इदानीं मनुष्यादित्वेन परिणतः अतीतस्येंद्रादि पर्यायस्य कारणत्वात् सांप्रतमपि द्रव्यं इंद्रादिभिधीयते अमात्यादि पदपरिभ्रष्टामात्यादिवत् तथा अग्रेपि य इंद्रादित्वेनोत्पत्स्यते स इदानीमपि भविष्यदिंद्रादिपदपर्यायकारणत्वात् द्रव्यं इंद्रादिरभि धीयते भविष्यद्राजकुमार राजवत् । एवमेवाचेतनस्यापि काष्ठादेस्तत् भविष्यत्पर्याय कारणत्वेन द्रव्यता भावनीयेत्यार्यार्थः॥
भावनिक्षेपस्वरूपवर्णनम् । अथ भावस्वरूपमाह-भावो विवक्षितक्रियानु
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com