________________
( २० ) वेन योग्यः स्थापितः स क्षणांतरे पुनरपि तथाविध प्रयोजनसंभवे इंद्रत्वेन स्थाप्यते पुनरपिच राजादित्वे नेत्यल्पकालवर्तिनी । शाश्वतप्रतिमादिरूपा तु यावकथिका वर्त्तते तस्मात्तु अहंदादि रूपेण सर्वदा तिष्ठतीति स्थापनेति व्युत्पत्तेः स्थापनात्वमवसेयं न तु स्थाप्यते इति स्थापना शाश्वतत्वन केनापि स्थाप्यमानवाभावादिति।तस्माद्भावशून्य द्रव्याधारसाम्येप्यस्त्यनयोः कालकृतो विशेषः । अत्राह । ननु यथा स्थापना काचिदल्पकालीना तथा नामापि किंचिदल्पकालीनमेव गोपालदारकादौ विद्यमानोप कदाचिदनेक नाम परावृत्तिदर्शनात्। उच्यते । सत्यं किंतु प्रायो नाम यावत्काथिकमेव यस्तु क्वचिदन्यथोपलंभः सोऽल्पत्वान्नेह विवक्षित इत्यदोषः । उपलक्षणमात्रं चेदं कालभेदेनैतयोर्भेदकथनमपरस्यापि बहुप्रकारभेदस्य संभवात् तथाहि । यथेंद्रादिप्रतिमास्थापनायां कुंडलांगदादि भूषितः सन्निहित शचीवब्रादिराकार उपलभ्यते न तथा नामेंद्रादौ । एवं यथा स्थापनादर्शनाद्भावः समुल्लसति नैवमिंदादिश्रवणमात्रात् । यथाच तत्स्थापनायां लोकस्योपयाचितेच्छा पूजाप्रवृत्ति समीहितलाभादयो दृश्यते नैवं नामेंदादावित्येव मन्यदपि वाच्यमिति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com