________________
*
सजातीयो विजातीयो वा पूर्व स्वस्वगुणकर्माणि विस्मृत्य पातित्यमलब्ध तस्य स्त्रमुद्धर्तु परान् वा समुर्द्धर्तु पूर्णोऽधिकारः । यत आत्मोद्धारस्याधिकारो न चैकस्यैव कस्यचित् पुरुषस्य समाजस्य वाऽधीनः, किन्तु सर्वेषामेव प्राणिनाम् । कश्चिदपि पुरुषो यदि नैजान दुर्गुणान् दुष्कर्माणि च परित्यज्य सद्गुणी सुकर्मण्यो वा बुभूषति तर्हि स पुनर्निजोद्धारं किं न कुर्यात् १ । यदैव हेयगुणकर्माणि विहाय तस्मिन् जने शुद्धता समायाति तदा तस्मिन्नार्यत्वमप्यायाति ।
आर्यशब्देन कश्चित् समाजः सम्प्रदायो वा न ममाभिप्रेतः किन्तु धर्मान् निरस्य यः कोऽपि सद्गुणसुकर्माणि स्वीकरोति स एवाऽऽर्यपदव्यपदेशभाक् । स च यस्मिन् कस्मिन्नपि समाजे संप्रदाये जातो वा तिष्ठतु सद्भिराऽऽर्य एव गण्यते ।
संसारे सर्व एव मनुष्याः सद्गुणसुकर्मभाजो भवन्त्वार्याः, निजोद्धारं च विदधतु इति मम हार्दिकमभिलषितमेतावदेव अभिधाय विरम्यते मया ।
श्रीमन्तो भवन्तः सहावधानेन यन्मम भाषणमाण्वन् तदमहं धन्यवादान् दिशामि ।
गुरुकुल वृन्दावन ता० २४-१२-२३ धर्म सम्वत् २.
}
ॐ शान्तिः शान्तिः सुशान्तिः ।
विजयेन्द्रसूरिः
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com