________________
तत्र प्रथमतः क्षेत्रार्यमेव विवृणोमि । यद्यपि भरतक्षेत्रे द्वात्रिंशसहस्रसंख्याका देशाः सन्ति परं तेषु केवलं सार्वपञ्चविंशतिरेवार्यदेशा गण्यन्ते, अवशिष्टा श्वानार्यदेशाः । नामान्यमीषां सूत्रकृताङ्गस्य प्रथमश्रुतस्कन्धे पञ्चमाध्ययने टीकाकारेण श्रीमता कोट्याचार्येण प्रदर्शितानि । तानीह विस्तरभयान्न प्रदर्श्यन्ते । तत्र वास्तव्याः क्षेत्रार्य पदव्यवहार्याः । १ ।
अम्बष्ठ - कलिन्द - वैदेह-वेदङ्ग - हरित - चुञ्चुणरूपाः मुख्यतया षड् भेदा जात्यार्थस्य । २ । अथ तृतीयस्य कुलार्यस्यापि मुख्यतया पड् भेदाः । तद्यथा - उग्रकुलाः भोगकुलाः, राजन्यकुलाः, इक्ष्वाकुलाः, ज्ञातकुलाः, कौरवकुलाश्च । ३ । तुरीयाः कर्मार्याः शास्त्रेऽनेकप्रकारा वर्णिताः । तथाहि दौसिकाः, सौत्तिकाः, कार्पासिकाः, भण्डवैतालिकप्रभृतयः । ४ । पञ्चमे शिल्पाssयें तन्तुवाय - सौचिक- पट्टकांरहतिकाराऽऽदीनां परिगणना । ५ । संस्कृतप्राकृतार्धमागधीविज्ञा भाषार्या उच्यन्ते । तत्र समष्टिव्यष्टिरूपेणाष्टादशभाषाभाषणरसिकाः सर्व एव भाषार्या भण्यन्ते । ६ । सप्तमस्य ज्ञानार्यस्य मतिश्रुतावधिमनः पर्यवकेवलज्ञानार्यरूपाः पञ्च भेदा: । ७ । एवं दर्शनार्यस्याप्यष्टमस्य सरागदर्शनार्य - वीतरागदर्शनार्यरूपेण द्वौ मुख्यभेदौ । अथ कारणे कार्योपचारात सरागदर्शनार्यस्य दश प्रभेदाः । ते च निसर्गरुच्युपदेशरुच्याज्ञारुचिसूत्ररुचिबीजरुच्यधिगमरुचिविस्ताररुचिक्रियारुचिसंक्षेपरुचिधर्मरुचिरूपाः । नामनिर्देशेनैव यत्रः
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com