________________
श्री भट्टिकाव्य-सुधारणा -
१. यद्यपि बहु नाधीषे तथापि पठ पुत्र ! व्याकरणम् । स्वजनः श्वजनो मा भूत् सकलं शकलं सकृत् शकृत् ॥ २. अ-विदित-श-ष-स-विशेषा वाणी वक्रात् विनिर्गता येषाम् । गुद-वदन- विवर-भेदो रदनैरेवोपल लक्ष्यते तेषाम् ॥ ३. अष्टाध्यायी जगन्माता, मर-कोशो जगत्पिता । भट्टिकाव्यं गणेशश्च त्रयीयं सुख-दाऽस्तु वः ॥ ४. शब्द वाक्य पद च्छेद-स्थूलाक्षर - विशेषदृक् । सुधारकैः सुधार्यासौ पुस्तक - स्थापने यदि - ॥ ५. स्थाप्येते गद्य-पद्येषु सच्छात्रानुग्रहेच्छया । मूलदेवार्थसिद्धिः स्यात् किं टीकायाः प्रयोजनम् ॥
६. अ-संस्कारं वि कोशं चोऽपच्छन्दश्चानलङ्कृति । नीरसं तद्भवेत्काव्यमित्याहुः काव्य- कोविदाः || ७. व्याकृत्या कोश - छन्दोभ्यामलङ्कत्या रसेन च । पञ्चकेनान्वितं काव्यं भट्टि काव्यं विराजते ॥
८. व्याकृति चषके पेयं राम-राज- कथामृतम् । शब्द- वाक्य पद-च्छेद-स्थूलाक्षर - विशेषदृक् ॥
९. सर्वेषामेव ग्रन्थानामेवं भाव्या सुधारणा । अन्ततः शिक्षण-ग्रन्था अप्येवं स्युः सुधारिताः ॥
कै० वि० ना० शा०.
१ ( छापणें ). २ ( छापली जाते ).
४ भाषान्तरम्, पक्षे स्पष्टम्.
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com
३ मूलग्रन्थात्, पक्षे बाल- शिष्यात्.