________________
तथा लक्ष्य-रूपे कथानके 'अयोध्या - प्रत्यागमनं' नाम द्वाविंशः सर्गः - ४५७
सह मातृमि: हनूमता च सह । अयं नम्रः अनुद्धतः 'समीपं मे नाथ भागतः' इति तर्याणां निःस्वनेन सकलं लोकं मार्गप्राप्तं समापूरयन् व्याभुवन् करिणां च गिरीन्द्रसदृशाम् । '४२९ | त्यदादिषु दृशः - |३|२|६० |' इति चकारात् क्विन् । विक्रान्तैः पादन्यासैः क्ष्मां कम्पयन् सर्वतो विधूनयन् । 'क्ष्मापयन्' इति पाठान्तरम् । तत्र '२५७० | अर्तिही | ७|३ | ३६ |' इत्यादिना पुक् । सम्प्राप्तः रामसमीपमित्यर्थः ॥
१६२० - अथ स-सम्भ्रम- पौर-जना ssवृतो भरत - पाणि-धृतज्वल- चामरः ॥ गुरु-जन-द्विज-बन्धुभिनन्दितः प्रविशति स्म पुरं रघुनन्दनः ॥ ३० ॥
अथेत्यादि - भथ भरतसम्प्राप्यनन्तरं रघुनन्दनो रामः ससम्भ्रमेण सादरेण सहर्षेण पौरजनेनावृतः । भरतपाणिना धृतमुज्ज्वलं चामरं यस्य । गुरुजनेन द्विजैर्बन्दिभिश्व स्तुतिपाठकैर मिनन्दितो ऽभिष्टुतः सन् पुरमयोध्यां प्रविशति स्म प्रविष्टः ॥
१६२१ - प्रविधाय धृतिं परां जनानां युवराजं भरतं ततोऽभिषिच्य ॥ जघटे तुरगाऽध्वरेण यष्टुं
कृत-सम्भार - विधिः पतिः प्रजानाम्. ॥ ३१ ॥
प्रविधायेत्यादि - प्रविश्य च पुरं प्रजानां पती रामः जनानां धृतिं प्रीतिरूपचेतोवृत्तिं परामुत्कृष्टां प्रविधाय कृत्वा भरतं च युवराजमभिषिच्य ततोऽनन्तरम् तुरगाध्वरेणाश्वमेधेन यष्टुं जघटे चेष्टितवान् । कृतसम्भारविधिः । संश्रियत इति सम्भारः द्रव्यगण इत्यर्थः । कृतोऽनुष्ठितः सम्भारस्य विधिरितिकर्तव्यतालक्षणो येन स इति ॥
नायकाभ्युदयान्तं महाकाव्यमिति परिसमापय्य तत्र जयमिच्छता अस्मिन्नादरः कर्तव्य इति दर्शयन्नाह
१६२३ - इदम॑धिगत-मुक्ति-मार्ग - चित्रं विवदिषतां वदतां च सन्- निबन्धात् ॥
१ - द्रुतविलम्बितवृत्तम् । 'द्रुतविलम्बितमाह नभौ भरौ ।' इति लक्षणात् ॥
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com