________________
४६६ भट्टिकाव्ये – चतुर्थे तिङन्तकाण्डे लक्षण-रूपेऽष्टमो वर्गः,
-
अन्वभाविष्यता ऽन्येन मैथिली चेत् पतिव्रता ॥ ११ ॥
नाकल्प्स्यदित्यादि — मैथिली पतिव्रता सती चेद्यदि त्वत्तोन्येनान्वभाविष्यत परिभुक्ताभूत् । चिण्वदिट् । तदायं स्थाणुर्महादेवः शूली वृषभवाहनः व्यक्तचिह्नः सन् सन्निधिं सन्निधानं नाकल्प्स्यत् न कृतवान् स्यात् । ' २३५२ | तासि च क्लृपः । ७।२।६०।' इति चकारात् स्ये च परस्मैपदे लुङ् । अन्यानुभवनं हेतुः । स्थाण्वागमनं हेतुमत् । पूर्ववत् क्रियातिपत्तौ लुङ् । भन्त्रान्यानुभवनक्रियायास्तद्विरुद्धानन्यानुभवनोपनिपातादतिपत्तिः ॥
१५७९ - आनन्दयिष्यदागम्य कथं त्वामेरविन्द - सत् ॥
राजेन्द्र ! विश्व-सूर् धाता चारित्र्ये सीतया क्षते. १२
आनन्दयिष्यदित्यादि - हे राजेन्द्र ! सीतया चारित्र्येक्षते कुत्सिते कृते सति एष धाता ब्रह्मा विश्वसुः सर्वस्य जगतः स्रष्टा अरविन्दसत् कमलासनः सन् आगम्य त्वां कथमानन्दयिष्यत् दर्शनाशीर्वादादिभिरानन्दितवान् गर्हितमेतत् । युक्तमागत्यानन्दयितुमित्यर्थः । '२८०० | विभाषा कथमि लिङ् च | ३ | ३|१४३ | ' इति कथंशब्दो गर्दा च लिनिमित्तं तस्मिन् क्रियातिपत्तौ भूते लृङ् । अत्रानन्दनक्रियायास्तद्विरुद्धचारित्र्य क्षतोपनिपातादतिपत्तिः ॥ १५८० - प्रणमन् ब्रह्मणा प्रोक्तो राजा ऽधिपतिस् ततः ॥ 'ना, Sशोत्स्यन् मैथिली लोके, नाऽऽचरिष्यदिदं यदि.
I
प्रणमन्नित्यादि - ततोऽनन्तरं राजकाधिपतिः राजसमूहानां पतिः । राजकं राजसमूहः । ' १२४६ । गोत्रोऽक्ष - |४| २|३९|' इत्यादिना वुञ् । रामः प्रणमन् ब्रह्माणमित्यर्थात् । ब्रह्मणा प्रोक्तः मैथिली यदि इदं वह्निप्रवेशनं नाचरिष्यत् नानुष्ठितवती तदा लोके दुराराधे नाशोत्स्यत् न शुद्धाभूत् किन्तु शुद्धा । 'शुध शौचे' दिवादिः । अत्राग्निप्रवेशाचरणं हेतुः भशोधनं च हेतुमत् । तयोर्हेतुहेतुमचे लिनिमित्ते क्रियातिपत्तौ भूते लृङ् । अत्राग्निप्रवेशाचरणक्रियायास्तद्विरुद्धाचरणोपनिपातादतिपत्तिः ॥
१५८१ - ना मोक्ष्याम वयं शङ्कामधास्यन् न चेद् भवान् ॥ किं वा चित्रमिदं युक्तं,
भवान् यदकरिष्यत ॥ १४ ॥
नेत्यादि - चेद्यदि भवानिह सीतां नाधास्यत् न रोपितवान् । अन्तर्भावि तोत्र ण्यर्थः । तदा वयं किं शुद्धा नेति शङ्कां नामोक्ष्याम न मुक्तवन्तः । अस्मिन् वस्तुनि अग्निप्रमाणत्वेन लोको गृह्णीयादित्येवमुक्तवान् । अन्यथा
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com