________________
४६४ भट्टिकाव्ये - चतुर्थे तिङन्तकाण्डे लक्षण-रूपेऽष्टमो वर्गः,
त्वयेत्यादि - किं नाम तच्छीलं तच्चरित्रं यदस्याः सीतायाः शीलं चिरं कालं संवसता त्वया नाद्रक्ष्यत नोपलब्धमेव । चेतोधर्मत्वान्नोपलब्धमिति चेत् किंवा नाम चेष्टाः शीलनिबन्धनाः क्रियाः बहुनापि कालेन त्वया नादर्शिष्यन्त न दृष्टा अभूवन् । अपि तु दृष्टा एव । '२८०१ | किंवृत्ते लृलुट | ३ | ३|१४४ |' इति किंशब्दो विभक्तयन्तो गर्हां च लिङ्गनिमित्तं तत्र गर्हायामित्येतदनुवर्तते तस्मिन् लिङ्गनिमित्ते क्रियातिपत्तौ भूते लुङ् । कर्मण्येव चिण्वदिट् । भत्र शीलानुपलब्धिक्रियायाश्च तद्विरुद्धचिरवासोपनिपातादतिपत्तिर्गम्यते । तथाहि 'शीलं संवसता ज्ञेयं तच्च कालेन भूयसा' इति ॥
I
१५७३ - यावज्जीवम॑शोचिष्यो, ना ऽहास्यश् चेदिदं तमः ॥ भानुर॑प्य॑पतिष्यत् क्ष्मामु॒क्षोभिष्यत चेदियम्. ॥ ६ ॥
यावदित्यादि - अन्यच्च लोकस्याज्ञानमूलं परगृहोषितेत्येतावतैवापरिशुद्धेत्यज्ञानमुत्पन्नमिदं तमः अज्ञानं यदि त्वं नाहास्यः न त्यक्ष्यसि तदास्या वैलक्षण्येन मरणादवश्यं यावज्जीवमशोचिष्यः शोकमेष्यसि । भतो मयाभिधीयमानः स्वयं च विमृशन् परिशुद्धा हीयमित्यवेहि येन न शोचिष्यसि । भत्र भविष्यदज्ञानाश्यागो हेतुः । यावज्जीवशोचनं हेतुमत् । तयोर्हेतुमत्त्वे लिनिमित्ते क्रियातिपत्तौ सत्यां भविष्यति नित्यं लृङ् । भन्नाज्ञानत्याग क्रियायास्तद्विविरुद्धोपदेशकत्वमर्षितज्ञानोत्पाद निपातादतिपत्तिर्गम्यते । अन्यच्च भभूतवस्तुत्पादकसूचक उत्पातो भवति न च तथाभूतोऽस्तीति दर्शयन्नाह । यदीयमक्षोभिष्यत् दुष्टचित्ताभूत् तदाभानुरपि क्ष्मां पृथ्वीमपतिष्यत् गतोभूत् । अत्रापि क्षोभो हेतुः भानुपतनं हेतुमत् तयोर्हेतुहेतुमत्त्वं । लिङ् निमित्ते क्रियातिपत्तौ सत्यां भूते लुङ् । अत्र क्षोभक्रियायास्तद्विरुद्धाक्षोभोपनिपातादतिपत्तिः ॥
अन्यच्च सत्येन स वित्रा लोकपाला अदुष्टचित्तेषु संनिधीयन्त इति दर्शयन्नाह - १५७४ - समपत्स्यत राजेन्द्र ! स्त्रैणं यद्य॑त्र चापलम्, ॥
लोक-पाला इहा ssयास्यस् ततो ना मी कलि- द्रुहः. ७ समेत्यादि - स्त्रीणामिदं स्त्रैणं चापलं चारित्रबन्धनं तदुत्र सीतायां हे राजेन्द्र ! समपत्स्यत संपन्नमभूत् । ततः कारणादमी लोकपालाः एवमादयो मूर्तिमन्तः कलिडुहः पापस्य द्रोग्धारः इह नायास्यन् नागता अभूवन् । चापलमन्त्र हेतुः लोकपालागमनं हेतुमत् । ततो हेतुहेतुमच्वे लिनिमित्ते क्रियातिपत्तौ सत्यां भूते लृङ् । भत्र चापलाचरणक्रियायास्तद्विरुद्धचा पालो पनि पातादतिपत्तिः ॥ अन्यच्च योषित्सामान्येन नेयं द्रष्टव्येति दर्शयन्नाह —
१५७५- आश्चर्यं यच्च यत्र स्त्री कृच्छ्रे ऽवर्त्स्यन् मते तव, ॥
त्रासादस्यां विनष्टायां किं किमालप्स्यथाः फलमू. ८ आश्चर्यमित्यादि - यच्च यत्र या भवति स्त्री यत्तव कृच्छ्रे मते सङ्कटेऽभिप्राये अवत्स्र्यत् प्रवृत्तिमती तदाश्वयै चित्रमेव वर्तते नान्येति भावः । '२८०७ Shree Sudharmaswami Gyanbhandar - Umara, Suratwww.umaragyanbhandar.com