________________
४५६ भट्टि-काव्ये-चतुर्थे तिङन्त-काण्डे लक्षण-रूपे सप्तमो वर्गः, गोरेतानि गव्यानि । सर्वत्र गोरजादिप्रत्ययप्रसङ्गे यत् । पञ्चगव्यानि समाहृतानीति पात्रादिदर्शनान डीप् । ततः पवित्रीकृतकाया, सन्दीप्ते पावके हविर्जुहुधि । ततः स्वामिनं गन्तुमनुष्ठितदेवकार्या सती त्वमालिम्प समालभस्व । ततो निवस्स्व आच्छादय । '७०९२। वस भाच्छादने' अदादित्वाच्छपो लुक् । धातुस. कारस्य परगमनम् । ततो धूपाय धूपितमात्मानं कुरु । धूपेरायप्रत्ययः । आविध्य च खजं मालां शिरस्याक्षिप । '१२५७। व्यध ताडने' इयनि २४१२। अहिज्या-६।१।१६।' इत्यादिना सम्प्रसारणम् । रत्नान्यामुञ्च विन्यस्येत्ययमर्थवशात् क्रियाक्रमो द्रष्टव्यः । यथा देवदत्तं भोजय सापय उद्वर्तयेति । किं च संरोध तमः अस्वतन्त्रीकरणजं शोकं छिन्धि अपनय । हैमी शिबिकां सौवर्णयानमारोह अधितिष्ठ । सर्वत्र भतुनियोगकरणे लोट् । तामारूढा द्विषां मनोरथान् हृदये स्थितानभिप्रायान् जहि नाशय । हो परतो '२४३१॥ हन्तेजः ।६।४।३६।' ॥ १५४३-तृणेढु त्वद्-वियोगोत्थां राजन्यानां पतिः शुचम् ॥
भवतादधियुक्ता त्वमत ऊर्ध्व स्व-वेश्मनि.॥ १३ ॥ तृणेद्वित्यादि-गतायां त्वयि राजन्यानां क्षत्रियाणां पती रामः शुचं शोकं त्वद्वियोगोत्यां त्वद्वियोगप्रभवाम् । '२९१६। सुपि स्थः ।३।२।४।' इति कः । 'उदः स्थास्तम्भोः पूर्वस्य' इति पूर्वसवर्णः । तृणेढ हिनस्तु । अतः अस्मारकालादर्य कालं स्ववेश्मनि अयोध्यायां अधियुक्ता त्वं भवतात् भूयाः । २१९७। तुह्योः-1७।१॥३५।' इति तातङ् ॥ १५४४-दीक्षस्व सह रामेण त्वरितं तुरगाऽध्वरे, ॥
. दृश्यस्व पत्या प्रीतेन प्रीत्या प्रेक्षस्व राघवम् ॥१४॥ दीक्षस्वेत्यादि-तुरगाध्वरे अश्वमेधे रामेण सह त्वरितं दीक्षस्त्र दीक्षिता भूयाः । आशिषि लोट् । प्रीतेन पत्या दृश्यस्व दृष्टा भव । इहापि कर्मणि लोह । प्रीता च सती राघवं त्वं प्रेक्षस्व ॥ १५४५-अयं नियोगः पत्युस ते, कार्यों नाऽत्र विचारणा, ॥
भूषया ऽङ्गं, प्रमाणं चेद्, रामं गन्तुं यतस्व च॥१५॥ अयमित्यादि-तव पत्युरयं नियोगः यत्कृतः स्नानादिव्यापारः । अत्र वस्तुनि विचारणा न कार्या किमेवं न वेति । एतत्प्रमाणं चेत् भूषयाङ्गं नानादिपूर्वकमलकुरु । रामं गन्तुं यतस्त्र ॥ १५४६-मुदा संयुहि काकुत्स्थं,
स्वयं चा ऽऽमुहि सम्पदम् , ॥ उपेावं मुहूर्तात् त्वं
देवि! राघव-सन्निधिम् ॥ १६ ॥ . Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com