________________
तथा लक्ष्य-रूपे कथानके 'सेतुबन्धन' नाम त्रयोदशः सर्गः- ३४१
निराख्यातं निरवयं च ॥ तत इत्यादि-ततो ऽनन्तरं भूमिभृतः पर्वताः कपियूथमुख्यैर्नीलादिमिः कृशानोस्तनयस्य नलस्य प्रणीताः अर्पिताः सन्तस्तेनैव कृशानुतनयेन सम्यक् साधु न्यस्ताः सन्तः महार्णवम् अवगाढाः भवष्टब्धवन्तः अकम्प्राः स्थिराः अनाग्रनितम्बानां भागा येषां ते । ब्रनो मूलम् । 'इण्विजजिदीक्षेउष्यविभ्यो नक्' इत्यधिकृत्य 'बन्धेबंधिबुधी च' इत्यौणादिको नक् ॥ इदं निराख्यातं तिङन्तपदाभावात् । निरवद्यं च प्राकृताभावात् ॥ १०४५-तेने ऽद्रि-बन्धो, ववृधे पयोधिस् ,
तुतोष रामो, मुमुदे कपीन्द्रः, ॥ तत्रास शत्रुर् , ददृशे सुवेलः, प्रापे जलान्तो, जहषुः प्लवङ्गाः ॥ २७ ॥
एकान्तराख्यातं निरवा च ॥ तेन इत्यादि-अदिबन्धस्तेने शनैर्विस्तारं गतः अत एव ववृधे पयोधि. वृद्धिं गतः । गिरिभिः पूर्यमाणोदरत्वात् तीरं लावयति स । तुतोष रामस्तुसृवान् । सुकरमिदानीं शत्रुव्यापादनमिति । मुमुदे कपीन्द्रः हृष्टवान् । प्रासो मे प्रत्युपकारकाल इति । तत्रास शत्रुः त्रासमुपगतः सेतुं बद्धवानिदानीमायातो राम इति । ददृशे सुवेलः ढौकमानैः सर्वैर्दृष्टः । जनान्तश्च प्रापे प्राप्तः । ततो जहषुः हृष्टाः प्लवङ्गाः स्वाम्यादेशः संपादित इति । एतदेकान्तराख्यातं सुबन्तपदैर्व्यवधानात् । निरवयं च प्राकृताभावात् ॥ १०४६-भ्रेमुर्, ववल्गुर्, ननृतुर्, जजक्षुर्,
जगुः, समुत्पुप्लुविरे, निषेदुः, ॥ आस्फोटयांचक्रुरभिप्रणेदू, रेजुर्, ननन्दुर, विययुः, समीयुः ॥ २८ ॥
आख्यात-माला ॥ भ्रमरित्यादि-ते पारं प्राप्य केचित् प्रदेशदर्शनोस्सुकाः भ्रमुः प्रान्ताः । अन्ये ववल्गुः तोषं गतवन्तः । 'उख उखि-' इत्यत्र वल्गतिर्गतौ पठ्यते । केचिदतिहर्षात् ननृतः । अन्ये रावणपराक्रमान् न्यकुर्वन्तो जजक्षुः हसितवन्तः । बुभुक्षया वा फलानि भक्षितवन्तः । 'जक्ष भक्ष-हसनयोः।' केचित् जगुः गायन्ति स्म । केचित्समुत्पुप्लुविरे उत्लुत्योप्लुत्य गच्छन्ति स । केचित् भ्रान्ता निषेदुः निषण्णाः । केचिदास्फोटयांचक्रुर्वयं युध्याम इति आस्फोटं कुर्वन्तीति ण्यन्ताल्लिट्याम् । केचित्तोषादभिप्रणेदुः सुष्टु नादितवन्तः । केचिद्रेजुः दीप्तवन्तः । केचिन्ननन्दुर्वयमीदृशं कर्म कृतवन्त इति । अन्ये विययुरितस्ततो गच्छन्ति स्म । केचित्समीयुः एकत्र संगताः ॥ भाख्यातमालेति तिङन्तमाला ॥
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com