SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ श्रीभगवन्नामकौमुदी । धरस्य कृतौ भगवन्नामकौमुद्यां पुराणवचनानां विवक्षितार्थत्वप्रतिपादनं नाम प्रथमः परिच्छेदः ॥ नामकीर्तनविधिमङ्गीकृत्य फलमाक्षिपति-नन्विति । तत्र हेतु. माह-संकीर्तयेदिति-समभिव्या हारादिति । नित्यवेदाभ्याससहपाठादित्यर्थः। ततश्चेति । पयसः कुल्या ह्रदान पितृन्स्वधा अभिवहन्ती. त्यादिफलश्रवणमध्ययनस्य यथाऽर्थवाद; एवं पापक्षयफलश्रवणं नाम. कीर्तनविधेरर्थवाद इत्यर्थः । अविशेषादिति । नित्यस्य काम्यस्य वा विधेः फलाकाङ्क्षाया अविशेषादित्यर्थः । तदेवाह-न हीति। अहरहः स्वाध्यायाध्ययनस्यापि नित्यत्वात्पापक्षय एव फलम् । उपसंहरतितस्मादिति । प्रथमपरिच्छेदसमासौ नामोच्चारणरूपं मङ्गलं कुर्वनाममाहात्म्यप्रतिपादकम्य ग्रन्थस्य प्रचयगमनरूपं फलं प्रार्थयतेकृष्णेति। यन्नामकीर्तनं सद्यः सर्वपापनिवर्तनम् । तं वन्दे परमानन्दसिन्धुं श्रीनन्दनन्दनम् ॥ इति श्रीमदापदेवसूनुनाऽनन्तदेवेन कृते श्रीभगवन्नामकौमुदीप्रकाशे प्रथमः परिच्छेदः समाप्तः ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034479
Book TitleBhagwannam Kaumudi
Original Sutra AuthorN/A
AuthorLakshmidhar
PublisherAchyut Granthmala Karyalay
Publication Year
Total Pages160
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy