SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ १३६ प्रकाशसहिता यदीति । यस्य विष्णोरङ्घ्रिकमलात्सदाशिवस्य च कबरीभराजटामण्डलाद्भूमिभागमागतस्य पाथसो जलस्य गङ्गाऽऽत्मकस्य नाम हसां पापानां निवर्त्तकं, “गङ्गा गङ्गेति यो प्रयादित्यादि " वाक्यात्, तस्य परमात्मनो; विष्णोः शिवस्य वा नाम पापनिवर्त्तकमिति किं वक्तव्यमित्यर्थः ॥ ८ ॥ नाधाय किं चिदपनीय न किं चिदन्तः स्वात्मैव येन सुखसिन्धुरगाधबोधः । आविष्कृतः करुणया करवै किमस्य तन्नाम्नि मग्नमिदमेव मनोऽस्तु पूजा ॥ ॥ स्वकीयकृतार्थतामभिनयति — नाधायेति । वस्तुतोऽनाधेयातिशयत्वान्निष्कलङ्कत्वाच्चात्मन इयमुक्तिः । येन गुरुणा परमात्मना वा करुणयाऽऽत्माऽऽविष्कृतस्तस्य किं करवै? श्रतस्तन्नाम्नि नम्रमभिमुखंमन एव पूजाऽस्तु ॥ ६ ॥ झटिति जगतामहस्तुलं दहद्दहनो महद्दहरकुहरध्वान्तं ध्वंसं नयन्नभसो मणिः । किरण लहरी चान्द्री चेतश्वकोरचमत्कृतिभवतु भवतां नामज्योतिर्मुदे मदनद्रुहः ॥ १० ॥ इति श्रीमदनन्तानन्दरघुनाथ परमहंस परिव्राजकाचार्य्यपादपद्मोपजीविनः श्रीमन्नृसिंहसृनोर्लक्ष्मीधरस्य कृतौ भगवन्नामकौमुद्यां नामकीर्त्तनस्य केवलस्यैव पुरुषार्थसाधनत्वप्रतिपादनं नाम तृतीयः परिच्छेदः । नन्दानन्दकरं करम्बितकरं हैयङ्गवीनैर्नवः शोभामादधतं नवीनजलदे मीलत्सुधांशोः स्फुटम् । भक्तानां हृदयस्थितं सततमप्याभीरदृग्गोचरंगोपालं भजतां मनो मम सदा संसारविच्छित्तये ॥ वद जिह्वे वद जिह्वे चतुरे श्रीराम रामेति । पुनरपि जिह्वे वद वद जिह्वे वद राम रामेति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034479
Book TitleBhagwannam Kaumudi
Original Sutra AuthorN/A
AuthorLakshmidhar
PublisherAchyut Granthmala Karyalay
Publication Year
Total Pages160
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy