________________
[ ४ ]
विनय विजयजी कृत सुखबोधिकावृत्तिके छ कल्याणक का निषेध सम्वन्धी लेखकी समीक्षा करके पाठकवर्गको दिखाता हूं-सो प्रथम तो उनका पाठ नीचे सुजब है यथा-
[अथ षट् कल्याणक वादीआह ननु " पंच हत्थुत्तरे साइणा परिनिवु हे” इति बचनेन महाबीरस्य षट्कल्याणकत्वं संपन्न मेव, मैवं एवं उच्यमाने "उसभेणं अरहा कोसलिए पंचउत्तरासाढ़े अभिइ उठे होत्यत्ति" जंबूद्वीपप्रज्ञप्ति बचनात् श्री ऋषभस्यापि षट्कल्याणकानि वक्तव्यानिस्युः नच तानि त्वयापि तथोच्यते तस्माद्यथा 'पंच उत्तरासाढे' इत्यत्र नक्षत्र साम्यात् राज्याभिषेको मध्ये गणितः परं कल्याणकानि तु अभिइ छठे इत्यनेन सहपचैव, तथात्रापि 'पंचहत्युत्तरे' इत्यत्र नक्षत्र साम्यात् गर्भापहारी मध्ये गणितः परं कल्याणकानितु "साइणा परिणिहुड़े" इत्यनेन सह पंचैव, तथा श्रीआचारांग टीका प्रभृतिषु पंचहत्युत्तरे इत्यत्र पंच वस्तुन्येव व्याख्यातानि नतु कल्याणकानि । किंच श्रीहरिभद्रसूरि कृत यात्रा पंचाशकस्य श्री अभय देवसरिकतायां टीकायामपि 'आषाढशुद्ध षष्टयां गर्भसंक्रमः १ चैत्र शुद्ध त्रयोदश्यां जन्म २ मार्गशीर्षशितदशम्यां दीक्षा ३ वैशाख शुद्धदशम्यां केवल ४ कर्तिकामावस्यां मोक्षः ५, एवं श्रोवीरस्य पंच कल्याणकानि उकतानि, अथ यदिषष्टः स्यात्तदा तस्यापि दिनं उक्तं स्यात अन्यच्च नीचैर्गोत्र विपाकरूपस्य अतिनिंद्यस्य आश्चर्यरूपस्य गर्भापहारस्यापि कल्याणकत्व कथमं अनुचितं । अथ पंच हत्थुत्तरे इत्यत्र गर्भीपहरणं कथं चक्रं इतिचेत्सत्यं अत्रहि भगवान् देवानन्दा कुक्षौ अवतीर्णः प्रस्तवती चत्रिशलेति असंगतिः स्यात्तन्निवारणाय पंच इत्युत्तरेति वचनं इत्यलं
प्रस ंगेन । ]
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com