________________
२५६
अध्यात्मकमलमार्तण्डे
इत्येवं चोक्तरीत्या नयविभजनतो घोष इत्यात्मभावान् दृष्टिं कृत्वा विशुद्धिं तदुपरितनतो भावतो शुद्धिरस्ति ॥ १६॥ संक्लेशासक्तचित्तो विषयसुखरतः संयमादिव्यपेतो जीवः स्यात्पूर्ववद्धोऽशुभपरिणतिमान् कर्मभारमबोढा । दानेज्यादौ प्रसक्तः श्रुतपठनरतस्तीवसंक्लेशमुक्तो वृत्त्याद्यालीढभावः शुभपरिणतिमान सद्विधीनां विधाता ॥१७॥ शुद्धात्मज्ञानदक्षः श्रुतनिपुणमतिर्भावदर्शी पुरापि चारित्रादिप्ररूढो विगतसकलसंक्लेशभावो मुनींद्रः। साक्षाच्छुद्धोपयोगी स इति नियमवाचावधार्येति सम्यकर्मन्नोऽयं सुखं स्यान्नयविभजनतो सद्विकल्पोऽविकल्पः ॥१८॥ द्रव्यं मूर्तिमदाख्यया हि तदिदं स्यात्पुद्गलः संमतो मूर्तिश्चापि रसादिधर्मवपुषो ग्राह्याश्च पंचेन्द्रियः। सर्वज्ञागमतः समक्षमिति भो लिंगस्य बोधान्मितात्तद्रव्यं गुणवृन्दपयेययुतं संक्षेपतो वच्म्यहम् ॥ १९ ॥ शुद्धः पुद्गलदेश एकपरमाणुः संज्ञया मूर्तिमांस्तद्देशाश्रितरूपगंधरससंस्पर्शादिधर्माश्च ये। तद्भावाश्च जगाद पुद्गलमिति द्रव्यं हि चैतत्त्रयं सर्व शुद्धमभेदबुद्धित इदं चांतातिगं संख्यया ॥ २० ॥ रूक्षस्निग्धगुणैः प्रदेशगणसंपिण्डो गुणानां व्रजस्तत्राप्यर्थसमुच्चयोऽखिलमिदं द्रव्यं ह्यशुद्धं च तत् । पर्यायार्थिकनीतितो हि गणितात्संख्यातदेशी विधिः । संख्यातीतसमं शमाद्भवति वानंतप्रदेशी त्रिधा ॥ २१ ॥