________________
-२५२
अध्यात्मकमलमार्तण्डे
अविनाभावो विगमप्रादुर्भावध्रुवत्रयाणां च । गुणिगुणपर्यायाणामेव तथा युक्तितः सिद्धम् ।। २२॥ स्वीयाच्चतुष्टयात्किल सदिति द्रव्यं बाधित गदितम् । परकीयादिह तस्मादसदिति कस्मै न रोचते तदिदम् ॥ २३ ॥ एक पर्ययजातैः समप्रदेशैरभेदतो द्रव्यम् । गुणिगुणभेदान्नियमादनेकमपि न हि विरुद्धयेत ॥ २४ ॥ नित्यं त्रिकालगोचरधर्मत्वात्मत्यभिज्ञतस्तदपि। क्षणिकं कालविभेदात्पर्यायनयादभाणि सर्वज्ञैः ॥२५॥ इति श्रीमदध्यात्मकमलमार्तण्डाभिधाने शास्त्रे द्रव्यसामान्य
लक्षणसमुद्योतको द्वितीयः परिच्छेदः ।