________________
मोक्षमोक्षमार्गलक्षणप्रतिपादकः प्रथमः परिच्छेदः २४३ मोक्षेः स्वात्मप्रदेशस्थित विविधविधेः कर्मपर्यायहानिमूलात्तत्कालचित्ताद्विमलतरगुणोद्भूतिरस्या यथावत् ।
१ आ इति स्मरणे । हे भव्य त्वं स्मरणं कुरु । अस्यात्मनः । शुक्लध्यानस्यादिः पृथक्त्ववितर्कविचारः । मनोवचनकायानामवष्टम्भेनात्मप्रदेशपरिस्पंदनमात्मप्रदेशचलनमीडग्विधं पृथक्त्ववितर्कमाद्यं शुक्लध्यानं भवतीत्यर्थः । पूर्वविदः सकलश्रुतज्ञानिनः श्रुतकेवलिनःश्रेण्यारोहणात्पूर्व धर्मध्यानं भवति, श्रेण्योस्तु द्वे शुक्रध्याने भवतस्तेन सकलश्रुतधरस्यापूर्वकरणात्पूर्व धर्मध्यानं योजनीयम् । अपूर्वकरणेऽनिवृत्तिकरणे सूक्ष्मसांपराये उपशांतकषाये चेति गुणस्थानचतुष्टये पृथक्त्ववितर्कविचारं नाम प्रथमं शुक्ध्यानं तेन शुक्लथ्यानादिना । अथवा आदिशब्देन "शुक्ले वाद्ये पूर्वविदः । परे केवलिनः " इति वचनादेकत्ववितकविचारमपि ग्राह्यम् । तत्तु क्षीणकषायगुणस्थाने संभवति तेनापि । अथवा शुक्लच्यानशब्देन आदिशब्दोऽत्र तपःसमितिगुप्तिधर्मानुप्रेक्षापरीषहजयचारित्रादिसंवरकारणविशेषसूचकोऽपि ग्राह्यस्तेन भावात् आत्मनः सकाशादपर पृथग्भूतं कृतं करणानि इन्द्रियाणि च तनुः शरीरं च ईग्विशेषणविशिष्टस्यात्मनः । संवरात् द्रव्यभावसंवरात् । अथ च निर्जराया एकदेशकर्मगलनस्वभावायाः सकाशाद्यथाबत् शुटंकोत्कीर्णात् शुद्धात्मोपलब्धेः सहजशुद्धनिष्कलंकपरमात्मन उपलब्धेः प्रापणात् मोक्षः स्यात् । अथ चास्यात्मनः खात्मप्रदेशस्थितविविधविधेः सकाशान्मूलाकर्महानिः स्यात्-अस्यार्थः-स्वे आत्मन्यात्मप्रदेशानां स्थित निश्चलताकारणं बाह्यनानापदार्थसमुदायादाकृष्यैकत्र स्वात्मन्याकर्षणं तस्मै हेतवे विविध नानाप्रकारं विधिविधान पिंडस्थपदस्थरूपस्थादिध्यानयोगक्रियालक्षणं तस्मात् । मूलान्मोहक्षयाज्ज्ञानदर्शनावरणांतरायक्षयाच बंधहेत्वभावनिर्जराभ्यां चेति कर्मणां पर्यायस्य च हानिः स्यादष्टकर्महानिः। अथ च मनुष्यभवपर्यायशरीरहानिः स्यात् । अथ च तत्कालचित्ताद्विमलतरगुणोद्भुतिः स्यात् । तत् तस्मिन् परमात्मनि कालेऽन्तर्मुहूर्तमात्रे । चित्तात् चित्तधारणाकालचित्तात्। “एकाग्रचिंतानिरोधो ध्यानमान्तर्मुहूर्तात्" इति वचनात् । अथवा तत्कालचित्तात्तेषां कर्मणां काले नारी सति तत्र चित्ताद्धृदयात् । "कृतांतानेहसोः कालः" इत्यमरः । विमलतरा अतिशयेन निश्चलाश्च ते गुणाश्च तेवामुद्भुतिरुद्भवनं उत्पत्ति रिति यावत् । केवलज्ञानकेवलदर्शनाद्यनंतगुणोत्पत्तिः स्यादित्यर्थः । अथ च परमसमरसीभावपीयूषतृप्तिः स्यात् ।