________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ श्रीमद्वेङ्कटेशाय नमः ॥
अथ सटीकः श्रुतबोधः।
छंदसां लक्षणं येन श्रुतमात्रेण बुध्यते॥ *तमहं संप्रवक्ष्यामि श्रुतबोधमविस्तरम् ॥ १॥
श्रीमत्सारस्वतं धाम नत्वा स्तुत्वा च सद्गुरुम् ॥ टीका श्रीश्रुत-- बोधस्य छंदसः क्रियते मया ॥ १॥ छंदसामिति । अहं तं श्रुतबोधं नाम छंदःशास्त्रं संप्रवक्ष्यामि । कीदृशं तम् अविस्तरं न विद्यते विस्तरो यस्मिन् सोऽविस्तरस्तमविस्तरम् । येन श्रुतमात्रेण प्रस्तारादि विनैव छंदसामार्यानुष्टुभादीनां लक्षणं गुरुलघुवर्णमात्रागणादिस्वरूपं बुध्यते ज्ञायत इत्यन्वयः ॥ १॥
संयुक्ताद्यं दीर्घ सानुस्वारं विसर्गसंमिश्रम् ॥ विज्ञेयमक्षरं गुरु पादांतस्थं विकल्पेन ॥२॥ ' अथ छंदोलक्षणस्य लघुगुरुज्ञानमंतरेण दुर्विज्ञेयत्वाल्लघुगुरुलक्षणमाइ।संयुक्ताद्यामति । एतादृशमक्षरं गुरु ज्ञेयं । कीदृशमक्षरम् । संयुक्ताद्यं संयुक्तस्य संयोगीभूतस्याद्यमादिभवम् । पुनः कीदृशम् । दीर्घ द्विमात्रकम् । सानुस्वारमनुस्वारेण सह वर्तमानम् । पुनः विसर्गसंमिश्र विसर्गेण संमिश्रं विसर्गसहितम् । पादांतस्थमक्षरं विकल्पेन गुरु लघु विज्ञेयम् । पादांते गुरुरपि लघुः स्यात्कुत्रचिल्लघुरपि गुरुः स्यात् । तथा चोक्तं ग्रंथान्तरे । वा पादांते त्वसौ वक्रो ज्ञेयोऽन्यो माकरे लघुः॥ २ ॥
For Private and Personal Use Only