________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटीकः। प्रमाणं तृतीयांके द्विगुरुप्रमाणं चतुर्थीके एकगुरुप्रमाणं पंचमांक सर्वलघुप्रमाणं चोर्ध्वतो ज्ञातव्यम् । अधस्ताचप्रथमांके सर्वलघुप्रमाणं द्वितीयांके त्रिलघुप्रमाणं तृतीयांके द्विलघुप्रमाणं चतुर्थीके एकलघुप्रमाणं चरमांक सर्वगुरुप्रमाणं च ज्ञातव्यम् ॥ १॥ २ ॥ इति एकद्वयादिलगक्रिया ॥
लगक्रियांकसंदोहेभवत्संख्याविमिश्रिते ॥ उद्दिष्टांकसमाहारः सैको वा जनयेदिमाम् ॥ १॥ इति संख्या॥ संख्यामाह । लगक्रियांकेति । लगक्रियांकसंदोहे एकद्वयादिलगक्रियायाः अंकसमूहे विमिश्रिते एकतो मिलिते तत्प्रस्तार रूपसंख्यामिलितोंकः स यथा। चतुरक्षरजातौ एकत्श्चवारः षट् चत्वार एकश्चैते लगक्रियांका भवंति एतेषां लगक्रियांकानां मिश्रीभावे षोडश भवंति ते षोडश एव संख्या चतुरक्षरजातेः प्रस्तार स्य । पक्षांतरमाह । वाथवा उद्दिष्टांकसमाहारः उद्दिष्टवृत्तवर्णशिरसि येंकास्तेषामेकीभावः पुनरेकरहितः इमां संख्यां जनयेत् तथा चतुरक्षरे छंदसि द्विगुणैरंकैरारोप्यमाणैः पंचदश भवंति तैः सैकैः षोडश ॥१॥
संख्यैव द्विगुणैकोना सद्भिरध्वा प्रकीर्तितः ॥ वृत्तस्यांगुलिकी व्याप्तिमधः कुर्यादथांगुलिम्॥१॥ इत्यध्वा ॥
अध्वानमाह । संख्यैवेति । चतुरक्षरजाती षोडश संख्यैव सा द्विगुणा द्वात्रिंशदेकोना एकत्रिंशद्भवति स सद्भिरध्वा वृत्तस्थानमार्गः कथितः । कथं वृत्तस्य वर्णागुलिकीम् अंगुलिपरिमाणां व्याप्तिम् स्थानभूमि कुर्यात् तथा द्वयोः प्रस्तारयोरंतराले एकमेवांगुलं कुर्यात्
For Private and Personal Use Only