________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटीकः। तदुदितमुरुमतिभिर्ललितं यदि शेषमस्य खलु पूर्वतुल्यकम् ॥३॥ नयुगमिति । यदि तृतीयकं चरणं पादं नगणद्वयं सगणद्वयं चास्य शेषमपरं पादत्रयं खलु निश्चितं पूर्वतुल्यकमुद्गतागतं लक्षणं भजति तदा उरुमतिभिः प्रचुरमातीमः पंडितैस्तवृत्तं ललितं नाम उदितमुक्तम् ॥३॥
इत्युद्गतामकरणं समाप्तम् । म्सौ ज्भौ गौ प्रथमांघिरेकतः पृथगन्यत् त्रितयं सनजरगास्तथा ननौ सः। त्रिनपरिकलितजयो प्रचुपितमिदमुदितमुपस्थितपूर्वम् ॥ १॥ म्साविति । मगणसगणौ जगणभगणौ द्वौ गुरू च एषः प्रथमांख्रिश्चरणः एकतः प्रथमपादात्पृथगन्यदतनं पादत्रितयं किंलक्षणरूपमित्याहः। सगणनगणजगणरगणगुरवो द्वितीये पादे । तथा ननौ दौ नगणौ सगणश्च तृतीये पादे । प्रयश्च ते नास्त्रिनास्तैत्रिनैः परिकलितौ युक्तौ च तौ जयौ जगणयगणौ चतुर्थ पादे यदि भवतस्तदोपस्थितपूर्व प्रचुपितमुपस्थितप्रचुपितंनाम छंदः इदमुदितं कथितं छंदोविद्भिरिति शेषः ॥ १॥
नौ पादेथ तृतीयके सनौ नसयुक्तौ प्रथमांत्रियति यदि प्रवर्धमानं त्रितयमपरमपि पूर्वसदृशमिह भवेत्पविततमतिभिरिति गदितं खलु वृत्तम् ॥२॥ नौ पाद इति । अथानंतरं तृतीयके पाद नौ दो नगणी पुनः
For Private and Personal Use Only