________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वृत्तरत्नाकरः।
मगणरगणौ सगणलघू गुरुश्च तदा हरिणीनाम छंदः स्यात् । चेद्यदि जलधिभिश्चतुर्भिः षभिः अंगैः सप्तमिः यतिः मगणभगणौ नगणतगणौ तात् तगणात् गुरू च स्यातां तदा मंदाक्रांता नाम छंदः । यदि नगणजगणौ भवतः भगणजगणजगणलघवो गुरुश्च स्यात्तदा नकुटकं नाम छंदः । इदं नर्कुटकं यादि मुनिगुहकार्णवैः मुनिभिः सप्तमिः गुहकैरिति गुहः कार्तिकेयस्तस्य कानि मुखानि षट् गु. हकैः षद्भिः अर्णवैश्चतुर्भिश्च कृता यतिर्यत्र स मुनिगुहकार्ण वैः कृतयतिस्तं तदा त्वं कोकिलकं नाम छंदः कथय ॥ १७ ॥
धृतिः । स्याद्भूतवश्वैः कुसुमितलतावेल्लिता म्तौ नयो यौ ॥१८॥ धृति म जातिस्तत्र यत्र भूतवश्वैः पंचषट्सप्तभिर्यतिः मगणतगणौ नगणयगणौ दो यगणौ च सा कुसुमितलतावेल्लिता स्यात् १८
अतिधृतिः । रसत्वैश्वैौ सौ ररगुरुयुता मेघविस्फूजिता स्यात् । सूर्याश्वैर्मसजस्तताः सगु
खः शार्दूलविक्रीडितम् ॥ १९॥ अथ अतिधृतिर्जातिः यमनसररगणगुरुयुता मेघविस्फूर्जिता स्यात् । रसैः षड्राभः ऋतुभिः षड्भिः अश्वैः सप्तभिः कृतविरामा । सूर्याश्वैः द्वादशसप्ताभः कृतविरामं मसजसततगणा गुरुसहिता यत्र तत् शार्दूलविक्रीडितं नाम छंदः स्यात् ॥ १९ ॥
कृतिः । ज्ञेया सप्ताश्वषड्भिर्मरभनययुता भ्लो गःसुवदना । त्री रजो गलौ भवेदिहशेन लक्ष
णेन वृत्तनाम ॥२०॥ अथ कृतिजाती भरभनयगणसहिता भगणलघू गुरुश्च यत्र सप्ता
For Private and Personal Use Only