________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४ वृत्तरत्नाकरः। तिलका काश्यपेन मुनिना सिंहोद्धता उदिता भणिता। तथा शैतवेन मुनिना इयमुद्धर्षिणी निगदिता । श्रीपिंगलेनाचार्येणेयं मधुमाधवीति कथिता । एवं च रूपाण्यपि मतानि । भगणजगण. सगणनगणैगुरुयुग्मसाहितौरैदुवदना स्यात् । चेद्यदि चरणे पादे मगणसगणौ मगणभगणौ द्वौ गुरू च तदा अलोला नाम छंदः । अत्र द्विःसप्तच्छित् द्वौ वारौ सप्तभिः सप्तभिः छित् छेदो यतिर्विराम इति ॥ १४ ॥
अतिशकरी। द्विहतहयलघुरथगिति शशिकला। श्रीगिति भवति रसनवकयतिरियम् । वसुमुनियतिरिह मणिगुणनिकरः । मा बाणा यस्यां सा कामक्रीडा ज्ञातव्या । ननमयययुतेयं मालिनी भोगिलोकैः । भवति नजौ भजौ रसहितौ प्रभद्रकम् ॥ सजना नयौ शरदशकविरतिरेला । नौ म्यौ यांतौ भवेतां सप्ताष्टकैश्चंद्रलेखा ॥१५॥ अथ पंचदशाक्षरायां शक्कयाँ जातौ द्विहता दाभ्यां गुणिता हयाः सप्त जाताश्चतुर्दश प्रागेव तावंतो लघवस्तदनु एको गुरुरित्यमुना प्रकारेण शशिकला नाम छंदो भवति । इयं शशिकला यदि रसनवकयतिः षट्नवभिर्यतिस्तदेत्यनया रीत्या स्रग नाम भवति । इह अस्यां शशिकलायामष्टसप्तभिर्यतिस्तदेयं मणिगुणनिकरः स्यात् । मा बाणाः पंच मगणाः यस्यां सा कामक्रीडासंज्ञा ज्ञातव्या । दौ नगणौ एको मगणो द्वौ यगणौ च एभिर्युता इयं मालिनी अस्यां भोगिलोकैः अष्टभिः सप्तभिश्च यतिविधेया। नगणजगणौ भगणजगणौ रगणसहितौ तदा प्रभद्रकं नाम छंदो भवति सगणजगण नगणाः नगणयगणौ च भवतो यत्र शरदशकविरतिः पंचभिस्ततो दशभिर्वणतिर्भवति सा एला संज्ञा स्यात् । मगणरगणौ मगणय
For Private and Personal Use Only