________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटीकः।
कलितमनियतमानिश्चितं यद्वृत्तपरिमाणं तेन सहितमेवंविधं जगत्प्रसिद्धं यत्तत्पादाकुलकं नाम छंदः॥ ८॥
वृत्तस्य लो विना वर्णैर्गा वर्णा गुरुभिस्तथा ॥ गुरखो लैर्दले नित्यं प्रमाणमिति निश्चितम् ॥९॥ वृत्तस्येति । यस्य कस्यापि वृत्तस्य लो लघवो मात्रारूपा भवंति तेभ्यो वगैरक्षरैविना गा गुरुसंख्या भवति तथा तेभ्यो लघुभ्यो गुरुभिस्तसंख्यां विना वर्णसंख्या भवति तेभ्यो मात्राभ्यः तैर्लघुमिविना शेषमात्राणां च दले कृते सति तत्संख्याका गुरवो वाच्याः॥ यथात्रैव वृत्ते एवं सर्वत्र ज्ञेयम् ॥ ९॥ शिखिगुणितदशलघुरचितमपगतलघुयुगलमपरमिदमखिलम् ॥ सगुरुकशकलयुगलमपि सुपरिघटितललितपदनिचिति भवति शिखा।।१०॥ शिखीति ॥ शिखी अग्निः ३ शिखिभिस्त्रिभिर्गुणिताये दश लघवस्तै रचितं यत्तत् । पुनः कीदृशमपगतं लघुयुगलं यस्मात्तत् । एवं प्रथम दलं तथापरं द्वितीयं दलमखिलं संपूर्ण त्रिंशन्मात्रके तथा दलद्वयमपि सगुरुकं । कोऽर्थः । प्रथमे दलेऽष्टाविंशतिलघवः प्रांत गुरुश्च द्वितीये त्रिंशन्मात्राः प्रांते गुरुः एवं दलद्वये द्विषष्टिलघव इत्यर्थः । कथंभूतं सुपरि शोमनप्रकारेण घटितानि बद्धानि मनोज्ञानि पदानि तेषां निचिती रचना यस्मिंस्तच्छिखानाम छंदो भवति ॥ १०॥
विनिमयविहितसकलयुगललघुललितपदविततिरचितगणनिचया ॥ श्रुतिसुखकृदियमपिजगति जशिर उपगतवति जि सति भवति स्वजा ॥ ११ ॥ विनिमयेन वैपरीत्येन विहितं यत्सकलयुगलं तस्य लघवस्तर्ल.
For Private and Personal Use Only