SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६ वृत्तरत्नाकरः । चत्वारोप्येकाक्षराः पादा भवंति अत्युक्ताजातौ चत्वारोपि द्वयक्षराः पादा भवति इत्थं यावत् यथा वृत्तावृत्तयोश्चत्वारोपि पादाः षाशतिवर्णप्रमाणा भवंति ॥ १७ ॥ तदूर्ध्व चण्डवृष्टयादिदण्डकाः परिकीर्तिताः ॥ शेषं गाथा त्रिभिः पट्टिश्वरणैश्चोपलक्षिताः ॥ १८ ॥ यस्याः षड्विंशत्यक्षरजातेरूर्ध्वं चण्डवृष्टिरादिर्येषां ते च ते दंडकाश्व ते चंडवृष्ट्यादिदण्डकाः परि समंतात्कीर्तिताः कथिताः। उक्तान्यच्छन्दःशेषं सा गाथा । सा च त्रिभिः षभिर्वा चरणैः पादैरुपलक्षिता चिह्निता भवति ॥ १८ ॥ उक्तात्युक्ता तथा मध्या प्रतिष्ठान्या सुपूर्विका ॥ गायत्र्युष्णिगनुष्टुप् च बृहतीपंक्तिरेव च ॥ १९ ॥ इदानीं छंदोजातेरुद्देशमाद । उक्ता १ अत्युक्ता २ मध्या ३ प्रतिष्ठा ४ अन्या सुपूर्विका सुप्रतिष्ठा ५ गायत्री ६ उष्णिक् ७ अनुष्टुप् ८ बृहती ९ पंक्तिः १० ॥ १९ ॥ त्रिष्टुप् च जगती चैव तथातिजगती मता ॥ शक्करी सातिपूर्वा स्यादष्टयत्यष्टी ततः स्मृते ॥२०॥ त्रिष्टुप ११ जगती १२ अतिजगती १३ शक्करी १४ सा शक्करी अतिपूर्वा स्यादतिशक्करी १५ अष्टिः १६ अत्यष्टिः १७ ॥ २० ॥ धृतिश्वातिधृतिश्चैव कृतिः प्रकृतिराकृतिः ॥ विकृतिः संकृतिश्चापि तथाभिकृतिरुत्कृतिः॥२१॥ धृतिः १८ अतिधृतिः १९ कृतिः २० प्रकृतिः २१ आकृतिः २२ विकृतिः २३ संकृति: २४ अभिकृतिः २५ उत्कृतिः २६ ॥ २१ ॥ For Private and Personal Use Only
SR No.034374
Book TitleShrutbodh Vrittartankrou Granthou
Original Sutra AuthorN/A
AuthorKhemraj Krushnadas
PublisherKhemraj Krushnadas
Publication Year1920
Total Pages71
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy