________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटीकः।
त्रयोदशाक्षरजातौ प्रभावतीलक्षणमाह । यस्यामिति । अमृतलते यस्यां प्रथमकमक्षरद्वयं तुर्य चतुर्थ तथा नवमं दशांतिकं दशसहितं त्रयोदशं वर्ण युगग्रहैश्च मिनवभिश्चाक्षरैविरतिःसा प्रभावती लक्षिता कथिता । अमृतस्य लतेव लता या सा तत्संबुद्धौ ॥३५॥ प्रभावती च० अ० १३, ग०त, भ, स, ज, ग; यतिः ४, ९॥
आद्यं चेत्रितयमथाष्टमं नवांत्यं द्वे चात्ये गुरु विरतौ सुभाषिते स्यात् ॥ विश्रामो भवति महेशनेत्रदिग्भिर्विज्ञेया ननु सुभगे प्रहर्षिणी सा॥३६॥
अथ प्रहर्षिणीलक्षणमाह । आद्यमिति ॥ हे सुदति ननु इति निश्चितम् आद्यं त्रितयं प्रथमतः वर्णत्रयम् अथाऽष्टमं नवांत्यं दशमं चान्त्ये द्वे द्वादशत्रयोदशाख्ये एते गुरवो भवंति । हे सुभाषिते महेशनेत्रैर्वर्णत्रयानंतरं दिग्भिर्दशवर्णानंतरं च विश्रामः स्यात्सा प्रहपिणी विज्ञेया ज्ञातव्या । सुष्टु शोभनं भाषितं यस्याः सा तत्संबुद्धौ। सुशोभना दंता यस्याः सा सुदती तत्संबुद्धौ । तदुक्तं रत्नाकरे । नौ नौ गस्त्रिदशयातः प्रहर्षिणीयम् ॥ ३६ ॥ प्रहर्षिणी च० अ० १३, ग० म, न, ज, र, ग; यतिः ३, १० ॥
आयं द्वितीयमपि चेद्गुरु तचतुर्थ यत्राष्टमं च दशमांत्यमुपान्त्यमन्त्यम् ॥ कामांकुशांकुशित कामिमतंगजेंद्रे कांते वसंततिलकां किल तां वदति ॥३७॥
चतुर्दशाक्षरजातौ वसंततिलकालक्षणमाह । आद्यमिति ॥ हे ' कामांकुशांकुशितकामिमतंगजेंद्रे यत्र आद्यं प्रथमं द्वितीयमाप गुरु
For Private and Personal Use Only