________________
२११
१३ प्रन्यः ] आख्यातशक्तिवादः ।
अपि च धात्वर्थतावच्छेदकफलशालित्वं कर्मत्वम् । न तु धात्वर्थजन्यफलशालितामानं गमि
शङ्कते-तवापीति । संयोगादिरूपतत्तत्फलावच्छिन्नव्यापारस्य धात्वर्थत्ववादिनोऽपि । कुत इति, आत्मनेपदस्य फलसामान्यवाचकत्वादिति भावः । तदवच्छिन्नेति । संयोगावच्छिन्न-क्रियावाचि-धातुसमभिव्याहृतात्मनेपदादिना संयोगरूपं फलं बोध्यते । एवमन्यत्रापि सर्वत्रावच्छेदकीभूतं फलं यत्र यत् तदेव फलमात्मनेपदादिना बोध्यते । तत्तत्समभिव्याहाराणां तथैव कार्यकारणभावकल्पनादिति भावः । अथ फलावच्छिन्नव्यापारवाचित्वं धातोर्मास्तु । तादृशधातुसमभिव्याहारादेव संयोगादिरूपो विशेषस्तत्र तत्र भासतामित्याशङ्कां दृष्टानुरोधित्वात् कल्पनाया निराचिकीर्षन्नाह-यथेत्यादि ।
इत्थं फलयोः स्वर्गत्वसंयोगादित्वादिनैव रूपेण बोधमुपपादयति-अस्तु वेत्यादिना । तदादेरिवेति । यथा बुद्धिविषयतावच्छेदकरूपेण शक्तावपि तदादेर्बुद्धिविषयतावच्छेदकत्वांशत्यागेन शुद्धघटत्वादिरूपेण बोधकत्वं तथा फलं तद्वक्ताख्यातकृयामपि समभिव्याहारविशेषवशायेन संयोगित्वादिना रूपेण धात्वर्थतावच्छेदकत्वं फलस्य तेन रूपेण बोधजननमस्त्वित्यर्थः । __ अयं भावः-यदि बुद्धिविषयत्वरूपेणोपस्थित-घटत्वपटत्वादिशालि-बुद्धिविषयवति शक्तमित्येवं तदादे: शक्तिग्रहः । बुद्धिविषयत्वरूपमुपस्थिती अनुग. मकमात्रं, न तु तदंशेऽपि शक्तिरिति शाब्दबोधे तन्न भासते किन्तु शुद्धं घटत्वपटवादिकं क्वचित्त भासते तद्विशिष्टस्यापि बुद्धिविषयत्वेन तद्विशिष्टस्यापि शक्यतावच्छेदकत्वग्रहात् । खण्डशक्तिवादिनामेवकारादिस्थल इवाकांक्षादि. वशाद्वा । नियमस्तु तात्पर्यत इति तदा प्रकृतेऽप्युपलक्षणीभूते इच्छाविषयत्वफलतावच्छेदकत्वादिरूपेणोपस्थितस्वर्गत्वसंयोगत्वादिविशिष्टे शक्तिमहादाकाक्षावशात्तत्तद्विशेषरूपेणैव बोधोऽस्तु । यदि वा बुद्धिविषये तदादिपदं शक्तमित्याद्युपदेशवाक्यार्थज्ञानसहकृतेन मनसा प्रकरणादिवशात्तदादिशब्दश्रवणानन्तरं विशेषरूपेणोपस्थिते शक्तिग्रहः, तदनु च शाब्दबोध इति मतं तदापि प्रकृवे इष्टसाधनताफलशक्तिबोधक-तादृशपदोपदेशवाक्यार्थज्ञानसहकृतेन मनसा विधिपदकर्माख्यातादिश्रवणादनन्तरं स्वर्गपदेन त्यजिगम्यादिधातुना च विशेषरूपेणोपस्थिते तथैव शक्तिग्रहोऽस्तु, तदनु च शाब्दबोध इति न काप्यनुपपत्तिरिति ॥ ११ ॥ (न्यायवा० ) नतु तत्पदस्य तत्तद्रूपमेव शक्यतावच्छेदकम्, भनन्यगस्या