________________
२०४ वादार्थसंग्रहः।
[४ भागः वा कृत्यादिघटित एव कादिना सममन्वयः । मुख्यभाक्तसाधारणस्य फलादिलक्षणकर्मत्वस्य कृत्यादिलक्षणकर्तृत्वस्य चानभिधाने द्वितीयादयः । कृता विशिष्टाभिधाने विशेषणस्याप्यभिधानात्॥९॥ प्रतियोगित्वादेः परम्परासम्बन्धेनान्वयः । अन्यथा तद्दृष्टान्तेन गौनित्या इत्यत्रापि लक्षणा गोत्वेन स्यात् । न च तद्विशेष्यकपदार्थान्तरबोधे दृत्तिजन्यतद्विशेष्यकोपस्थिते हेतुत्वान्न तथा बोधः । मैत्रादन्यो नित्य इत्यत्रैकदेशे भेदे नित्यानन्वयात् ।
अत्रापि तथाकल्पनादत आह-अस्तु वेति । एवं पाकस्य धर्मिण्येव स्वजनककृतिसम्बन्धेनान्वयात् । तथा च पक्तत्यत्र पाकवान् कर्ता इत्यन्वयबोधः । न चैवं पक्ता पचतीत्यन्वयबोध: स्यात् । उद्देश्यतावच्छेदकविधेययो. रेक्याभावादिति वाच्यम्, उद्देश्यतावच्छेदक-विधेयाभेदस्थल इवात्रापि निराकाङ्गत्वाकल्पनात् । केचित्तु तश्रेष्टापत्तिरित्याह चैत्रस्य नप्तेत्यादावपि षष्ठ्य
स्य स्वाश्रयान्यत्वसम्बन्धेनैव धर्मिणि अन्वयो मित्रैरपि तथैवोपपादित शब्दमणौ कृतौ कर्मत्वे भाश्रये च कृतः शक्तिरतो नैकदेशान्वयः । तेन पक्तत्यत्र पाकवान कति बोधे पाकातकूळकृतिमान वेति संशयनिरासो न स्यादित्यपास्तमित्याहः। केचित्तु अस्तु वेत्यापाततः । चैत्रपक्ता मैत्रादन्यो घट इत्यादिबोधेन तद्विशेष्यकापरपदार्यान्वयबोध एव वृत्तिजन्यतद्विशेष्यकोपस्थितेहेतुत्वात् । मतो गौनित्या इत्यादावेकदेशान्वय इत्याहुः, तचिन्त्यम, घटो ज्ञायत इत्यादौ घटत्वे ज्ञानविषयत्वान्वयापत्तेः । चन्द्र इव मुखं चैत्रस्य धनमित्यादौ मुखत्वधनस्वादौ सादृश्यान्वयापत्तिश्च । परे तु यधुक्तसंशयाभाव आनुभविकस्तदा अन्याविपदानां मैत्राविभेदवति लक्षणेति पदान्तरं तात्पर्यग्राहक आश्रये अन्यत्वादौ वा अन्यादिपदानां वा खण्डशः शक्तिरित्याहुः।
ननु कृतः कर्तृकर्मवाचकत्वे तन्दुलं पचति चैत्रेण पक्तत्यपि स्यात् अतो मुख्येति मुख्यं तन्दुलं पक्कत्यादौ भाक्तं घट ज्ञाता इत्यादौ । आदिपदेन जानातीच्छतीयविषयत्वादिसंग्रहः। कृतादित्यादिपदाव रथो गच्छतीयादावाभयत्वादिपरिग्रहः । यद्यपि कृतां कर्मादिशको सिद्धायां कृताकर्मापन भिधाने द्वितीयादय इत्येव वक्तुं गुकं तथापि लाघवात् कर्मत्वायमिधानमित्युक्तम् । ननु कर्तृत्वानमिधानं सर्वदैव कृतस्तद्विशिष्टवाचकत्वादत आह-कृतेति । विशिष्टस्यानतिरेकाद्विशेषणकृतेरप्यभिधानादिति भावः ॥९॥