________________
वादार्थसंग्रहः
तासंबन्धेनान्वयसंभवात् । नापि - घावनानुकूलकृतिविशिष्टमृगरूपवाक्यार्थस्यैव दृशिक्रियाकर्मत्वं, वाक्यस्य तु प्रातिपदिकत्वाभावान्न द्वितीयापत्तिः, कर्मत्वं तु संसर्गतया भासते - इति वाच्यम् । नीलो घटः पश्यतीत्यादिप्रयोगविरहेण वाक्यार्थस्यापि धात्वर्थे कर्मत्वादिसंसर्गेणान्वयस्याव्युत्पन्नत्वात् । “ श्रुत्वा ममैतन्माहात्म्यं तथा चोत्पत्तयः शुभाः " इति त्वार्षम् । नापि तमित्यध्याहाराददोष इति वाच्यम् । वाक्यभेदापत्तेः ।
ननु भवन्मतेऽपि 'दृश्यन्ते मृगा धावन्ति, मृगी धावति मारय, अश्वो गच्छत्यानय' इत्यादावध्याहारस्यावश्यत्वाद्वाक्यभेदो दुष्परिहरः । किं च तिर्थविशेष्यतापन्नातिरिक्तनिपातेतरप्रातिपदिकार्थस्यैव धात्वर्थेSभेदातिरिक्तसंबन्धेनान्वयस्याव्युत्पन्नत्वमभ्युपगन्तव्यम् । तेन पश्य मृगो धावतीत्यादौ तिङर्थविशेष्यतापन्नस्य मृगादिपदार्थस्य कर्मतासंबन्धेन दर्शनादिक्रियायामन्वये न किमपि बाधकमिति । एवं पश्य मृगोधावति मारय, अश्वो गच्छत्यानय इत्यादौ सर्वत्रैकवाक्यत्वमभ्युपपद्यत इतिशाब्दबोधस्य प्रथमान्तार्थमुख्यविशेष्यकत्वे न कोऽपि दोष इत्यभिप्रायेणाह - अप्रमाणा चेति । शाब्दबोधस्य प्रथमान्तार्थमुख्य विशेष्यकत्वं निदोषमपि प्रमाणशून्यम् । तस्य क्रियामुख्यविशेष्यकत्वे तु 'भावप्रधानमाख्यातम्' इति यास्कोक्तं 'क्रियाप्रधानमाख्यातम्' इतिरूपप्सूत्रस्थभाष्यं च प्रमाणमिति । भावः क्रिया, आख्यातं तिङन्तम् । भावकालकारकसंख्याश्चत्वारोऽथ आख्यातस्य तत्र भावः प्रधानमिति निरुक्तभाष्यम् | आख्यातस्य क्रियाप्रधानत्वं शाब्दबोधस्य क्रिया मुख्य विशेष्यकत्व एवोपपद्यते न तु प्रथमान्तार्थस्य मुख्यविशेष्यत्वे । नच पाचकादिकृदन्तवत् पचतीत्याद्याख्यातस्यापि साधनप्रधानत्वमेवास्तु । चैत्रो ग्रामं गच्छति, चैत्रस्तण्डुलं पचतीत्यादौ शाब्दबोधस्य च प्रथमान्तार्थमुख्यविशेष्यकत्वमेवास्तु, किमाख्यातस्य क्रियाप्रधानत्वस्वीकारेणेति वाच्यम् । तथा सति पचन् पठति, पाचको गायति, पचता पठ्यते, पाचकेन गीयते, पक्तवता भुज्यते, पचतो धनं, पाचकस्य गृहं पक्तवतो गृहमित्यादिवत् पचति पठति, पचति गायति, पचति पठ्यते, पचति गीयते, अपाक्षीजुज्यते, पचति धनं, पचति गृहम् अपाक्षीद्गृहमित्यादीनामपि प्रयोगाणां तत्तदर्थे प्रामाण्यप्रसङ्गात् । तथा चोक्तम्
यथा कृदन्तवाक्येऽस्य साधनस्य क्रियान्तरैः । संबन्ध: स्यात्तथेहापि नाख्याते स कथं भवेत् ॥
८२
[ ३ भाग: