________________
११ ग्रन्थः ]
लघुविभक्त्यर्थनिर्णयः ।
इत्यनुशासनादायुष्यं चिरंजीवितं मद्रं भद्रं कुशलं निरामयं सुखं शमर्थः प्रयोजनं हितं पथ्यं कृष्णस्य कृष्णाय वा भूयादित्यादौ चतुर्थी षष्ठी च। अनाशिषि हितयोगे शेषेषष्ठीं बाधित्वा चतुर्थीविधायकेन हितयोगेच' इत्यनेन चतुर्येव भवति, देवदत्ताय हितमिति ।।
इति षष्ठी।
सप्तम्यर्थनिर्णयः। कर्तृकर्मद्वारा तनिष्ठक्रियायाः औपश्लेषिकवैषयिकाभिव्यापकरूपाधारकारकस्याधारोऽधिकरणमित्यधिकरणसंज्ञायां सप्तम्यधिकरणे चेत्यनेन कटे आस्ते स्थाल्यां पचतीत्यादौ यत्किचिदवयवावच्छेदेनाधारस्याधेयेन व्याप्तिरूपोपश्लेषाधिकरणे सप्तमी । कटाधिकरणिकैकर्तृकासनक्रियेति बोधः । स्थाल्यधिकरणिकैकर्तृका पचिक्रिया । चैत्रतण्डुलादिपदसमभिव्याहारे तु एकचैत्राभिन्नकर्तृका तण्डुलकर्मिकेति विशेषः । विषयतासंबन्धेनावच्छिन्नाधिकरणस्य तु मोक्षे इच्छास्तीति । मोक्षविषयकेच्छाकर्तृका सत्तेति बोधः । अत्र धात्वर्थ प्रति मोक्षस्य कर्मत्वेऽपि प्रत्ययोपात्तसिद्धेच्छाद्वारास्तिक्रियायामन्वयस्य विवक्षितत्वेन सप्तमी । धात्वर्थ प्रत्यन्वयविवक्षायां तु कर्मत्वात्कर्तृकर्मणोः कृतीति षष्ठयेव । मोक्षे इच्छास्तीतिवन्मोक्षे इच्छतीति न प्रयोगः । उपमानेऽस्तिक्रियानिरूपितकर्तृद्वाराधिकरणत्ववदुपमेये तदभावनेच्छतिनिरूपितकर्मत्वाद् द्वितीयैव । · परे तु अधिकरणस्य कर्ताद्यन्वय एव, कटाधिकरणकचैत्रकर्तृकमासनमित्यादिरीत्या बोधः । अत एवाक्षशौण्ड इत्यादौ सामर्थ्यासमासः । अक्षविषयकप्रावीण्यवानिति बोधानुभवात् । यत्तु ‘एवं चात्रान्तर्भूतक्रियाद्वारा सामर्थ्यमिति कैयटादयश्चिन्त्याः' इत्याहुवैयाकरणनव्यास्तत्रेयं चिन्ता-अन्तर्भूता या शौण्डपदार्थप्रावीण्यरूपा क्रियेति सर्वानुभूत एवार्थः कैयटेनोक्त इति न वैलक्षण्यम् । अवच्छेदकावच्छेदेन वृत्तिमद्रूपाभिव्यापकाधिकरणे तु सर्वस्मिन्नात्माऽस्तीत्यादौ । ननु खे शकुनय आतपे तिष्ठन्तीत्यादावुक्तविषाधिकरणाभावात्कथं सप्तमीति चेत् । अत्र केचित् । आतपपदस्मृततत्संबन्धिनि लक्षणया तत्संयुक्ते गृहे इत्यर्थः । आकाशशब्देन गमनप्रतिबन्धकभूप्रदेशानवछिन्नप्रदेशो लक्ष्यते । सप्तम्या च अवच्छेदकत्वं, धातुना निराधारगमनम् । तथा चोक्तविधभूप्रदेशानव