SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ मौनिश्रीकृष्णभट्टविरचितः लघुविभक्त्यर्थनिर्णयः ११ कारुण्यवर्षजलदं फलदं तपसां सताम् । नीलोत्पलदलच्छायं निर्मायं धाम कामये ॥ १॥ तर्कव्याकृतिमीमांसापरिशीलनशालिना। मौनिश्रीकृष्णभट्टेन विभक्त्यर्थो विविच्यते ॥२॥ अथ सुब्विभक्तीनामों विविच्यते । तत्र सुस्त्वंस्वौजसमौडित्याद्यनुशासनानुशासितप्रत्ययत्वम् । तार्किकास्तु-. . प्रकृत्यर्थधर्मिकस्वार्थसंख्यान्वयबोधकविभ क्तित्वं सुस्वम् । तिङस्तु स्वार्थभावनान्वयिन्येव स्वार्थसंख्यान्वयमवबोधयन्ति नतु स्वप्रकृत्यर्थ इति तेषां व्युदास इति वदन्ति । तन्न । पचतिकल्पं देवदत्त इत्यादौ प्रकृत्यर्थधर्मिकस्वार्थसंख्यान्वयबोधकत्वाभावेनाऽव्याप्तेः । उष्ट्रासिका आस्यन्ते, हतशायिकाः शय्यन्ते, इत्यादावुष्ट्रासनानीव देवदत्तकर्तृकान्यासनानि हतशयनानीव देवदत्तकर्तृकानि शयनानीति बोधानाध्ये धात्वर्थे संख्यान्वयस्य स्वीकृतत्वात् स्वप्रकृत्यर्थभावनाधर्मिकस्वार्थबहुत्वसंख्यान्वयबोधकतिङ्विभक्तिषु अतिव्याप्तेश्च । विभक्तित्वं तुविभक्तिश्च प्राग्दिशो विभक्तिरित्यनुशासनाभ्यामनुशासितसंज्ञावत्त्वम् । तार्किकास्तुसंख्यात्वावान्तरजात्यवच्छिन्नशक्तिमान्यः प्रत्ययः सा विभक्तिः। एकत्वत्वाद्यवछिन्नशक्तिमानपि तदादिर्न प्रत्ययः । प्रत्ययश्च तृजादिनसंख्याशक्त इति तयोर्युदास इत्याहुः । तन्न । त्रलादीनां संख्यात्वावान्तरजात्यवच्छिन्नशक्तिमत्वाभावेनाव्याप्त्यापत्तेः । न च त्रलादीनां सप्त
SR No.034266
Book TitleVadarth Sangraha Part 03 Vad Sudhakar Laghu Vibhaktyartha Nirnay Shabdabodh Prakashika
Original Sutra AuthorN/A
AuthorMahadev Gangadhar Bakre
PublisherGujarati Printing Press
Publication Year1915
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy