SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ १० ग्रन्थः ] वादसुधाकरः। श्यकत्वात् । एतेनाविशिष्य एवैकशेषः, एकघटशब्दादेव बहुवचनेनानेकघटबोधसंभवात् सकृदुचरितः सकृदथै गमयतीतिन्यायस्याप्रामाणिकत्त्वात् , हरय इत्यादावपि सति तात्पर्ये युगपदनेकबोधे इष्टापत्तिरेवेति परास्तम् ; हरिहरी इत्यादिद्वन्द्ववारणायैकशेषस्यावश्यकत्वात् । किंच पदार्थतावच्छेदकभेदस्यैव नियामकत्वे एकस्मिन्नपि पुंसि दण्डिकुण्डलिनौ गच्छत इति प्रयोगापत्तिः । पदार्थतावच्छेदकस्य दण्डकुण्डलादेर्भेदसत्त्वात् । नच द्वित्वानन्वयः शङ्कयः, नीलघटयोरभेद इत्यादाविव पदार्थतावच्छेदके तदन्वयसंभवात् । दीधितिकृदनुयायिनस्तु--एकपदार्थेऽपरपदार्थाभेदतात्पर्यसमासकत्वं कर्मधारयत्वं, भेदतात्पर्यकत्वं द्वन्द्वत्वमित्याहुः । शाब्दिकमते तु-शब्दस्वरूपस्यापि शाब्दबोधे विशेषणतया भानान्नीलघटयोरित्यत्र नीलपदोपस्थाप्यघटपदोपस्थाप्ययोरित्यर्थः। तत्र विशेषणीभूतशब्दस्वरूपभेदात्पदार्थभेदादेव द्वन्द्वः । अत एव च 'असुरा देत्यदैतेयदनुजेन्द्रारिदानवाः' इत्यत्र विरूपाणामपि समानार्थानामित्येकशेषो न भवति समानप्रवृत्तिनिमित्तकस्यैव समानार्थत्वात् संज्ञाशब्दे द्रव्यस्यैव प्रवृत्तिनिमित्तत्वात् । एवं चेन्द्रपदवदभिन्नो मघवत्ववानिति बोधः । ध्वनीनां सर्वत्रानित्यत्वात्तदभिव्यङ्गयः स्फोट एवार्थवानिति सिद्धान्तः । ___ तार्किकास्तु-श्रूयमाणपदानामेव वाचकत्वमिच्छन्ति । यत्तु इदं पदमत्रशक्तमित्यर्थात्कोशे पदभेव पदार्थ इति तन्न । नामार्थयोरभेद इतिन्यायविरोधापत्तेः । __ नन्वेकैकवर्णानां वाचकत्वे धकारमात्रश्रवणेऽपि घटबोधापत्तिः । समुदायस्तु तेषामसंभवी वर्णानामाशुविनाशित्वादिति चेन्न । तत्तद्वर्णानुभवजनितसंस्कारैस्तावद्वर्णगोचरायाः समूहालम्बनात्मकैकस्मृतेः स्वीकारात् । __ अत्रेदं चिन्तनीयम्-चरमवर्णानुभवकाले तन्नाशानन्तरं वा पूर्ववर्णस्मरणं कल्प्यते । नाद्यः ज्ञानद्वययोगपद्यस्य तैरस्वीकारात् । न द्वितीयः उद्बोधकाभावात् । ननु पूर्ववर्णानुभवजनितसंस्कारसहितचरमवर्णानुभव एव तावद्वर्णस्मरणहेतुरिति चेन्न । संस्कारानुभवस्मरणानां समानविषयकत्वेन कार्यकारणभावात् । एतेन तावद्वर्णसंस्कारैः समूहालम्बनात्मकमेकं स्मरणमुत्पद्यत इत्यपास्तम् । उद्बोधकाभावात् । किंच समूहालम्बनस्वीकारे घकारष्टकारो मकार इत्यतो घटमित्यस्य वैलक्षण्यानापत्तेः । सरो रस
SR No.034266
Book TitleVadarth Sangraha Part 03 Vad Sudhakar Laghu Vibhaktyartha Nirnay Shabdabodh Prakashika
Original Sutra AuthorN/A
AuthorMahadev Gangadhar Bakre
PublisherGujarati Printing Press
Publication Year1915
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy