________________
१० ग्रन्थः]
वादसुधाकरः।
११
पदवत्समासेऽपि शक्तिकल्पनमुचितम् । अथ राजपुरुषादेः समुदायस्य शक्तत्वे निषादस्थपतिं याजयेदित्यत्र निषादानां स्थपतिरिति न तत्पुरुषः पूर्वपदे संबन्धिनि लक्षणाप्रसङ्गात्, किंतु कर्मधारयो लाधवादिति सिद्धान्तासङ्गतिरिति चेन्न । तत्पुरुषे संबन्ध्यादिरूपाधिकपदार्थान्तर्भावेणैकार्थीभावकल्पनमित्यत एव गुरुत्वात् । अत एव बहुव्रीहावन्यपदार्थान्तर्भावेणैकार्थीभावः कल्पनीय इति तत्पुरुषापेक्षया तस्य जघन्यत्वम् । नञ्समासे वारोपितत्वस्य नञा द्योतितत्वादब्राह्मण इत्यस्यारोपितब्राह्मण इत्यर्थः । ब्राह्मणभिन्न इत्यादिस्त्वार्थिकोऽर्थः । अत एवौत्सर्गिकं तत्पुरुषस्योत्तरपदार्थप्राधान्यमपि सिध्यतीत्यसर्वस्मै इत्यादौ सर्वनामवास्मायादयः ।
ननु शाब्दिकमते नमो द्योतकत्वादब्राह्मण इत्यादावेकार्थीभावासंभवः भिन्नार्थशब्दानामेकार्थवृत्तित्वस्यैवैकार्थीभावपदार्थत्वादिति चेन्न । ब्राह्मणत्वमारोपश्च ब्राह्मणशब्दार्थः । तयोश्च परस्परं विषयविषयिभावेनान्वयः। आरोपविषयब्राह्मण्यवानित्यर्थः । इदमेव नबो द्योतकत्वम् । एचंच तादृशपदार्थयोः परस्परमन्वयमात्रेणैकार्थीभावव्यवहारात् । भाष्यानुसारिणस्तु नञोऽभाव एवार्थः । सच प्रतियोगिनि विशेषणं विशेष्यो वेति पक्षद्वयम् । आये घटो नास्तीत्यत्राभावप्रतियोगिघटकर्तृकासत्तति बोधः । अत्वं भवसीत्यत्र भेदप्रतियोगित्वदाभिन्नायिका भवनक्रियेति बोध इति युष्मदर्थसामानाधिकरण्यसत्त्वान्मध्यमत्वादिव्यवस्था सिध्यति। त्वत्प्रतियोगिकभेदवानित्यर्थे तु तदसिद्धेः । एवं न घटा वर्तन्ते इत्यत्र बहुवचनमपि सिध्यति। अभावपरत्वे तु तस्यैकत्वात्तदनापत्तेः । एवं सेव्यतेऽनेकया सन्नतापाङ्गया, अनेकमन्यपदार्थे इत्यत्रोत्तरपदार्थप्रधानत्वादेकवचनं सिध्यति । 'तपन्त्यनेके जलधेरिवोर्मयः' इत्यत्र त्वनेकशब्दस्यैकशेषेण बोधः । द्वितीये त्वभावविशेष्यक एव बोधः । उत्तरपदकार्य तु अनसमास इति ज्ञापकादित्यन्यत्र विस्तरः ॥
इति समासार्थनिर्णयः । उपसर्गाणां द्योतकत्वमेव न वाचकत्वम्। अनुभूयते सुखमित्यत्र धात्वर्थतावच्छेदकफलशालिवाभावेन कर्मणि लकारानापत्तेः । एवं चादीनामपि द्योतकत्वम् । अत एव साक्षाक्रियते हरिरित्यादौ हरेः साक्षात्कारकर्मता । एतेन प्रादीनां द्योतकत्वं चादीनां वाचकत्वमित्यर्धजरतीयमपास्तम् । ननु चादीनां वाचकत्वाभावे स्वीकारार्थादोमितिपदाच्छाब्दबोधा