________________
वादार्थसंग्रहः
[३ भागः द्धितसमासैः' इत्येव भाष्ये पाठादिति चेत्सत्यम् । तदेव तु भवन्मते दुर्वचम् । तथाहि वैयाकरणानां मते कारकविशिष्टा क्रिया वाक्यार्थः । तत्र धावतीत्यस्य प्रातिपदिकत्वाभावेन न द्वितीयेति युक्तोऽयं समाधिः। तार्किकमते तु क्रियाविशिष्टप्रथमान्तार्थस्य वाक्यार्थतया तस्य कर्मत्वं दुर्वारमेव । अन्यथा पचन्तं चैत्रं पश्येत्यादावपि पाकानुकूलकृतिविशिष्टस्य चैत्रस्य कर्मतया द्वितीयानापत्तेः । अत एव नीलो घटः करोतीति न प्रयोगः । नच नीलं करोति घटं करोतीति पृथगेव भाष्यरीत्या कर्मत्वात् द्वितीयेति वाच्यम् । एवमपि विशिष्टस्य कर्मतामादाय प्रथमापत्तेqारत्वात् । स्यादेतत् ।
पश्य लक्ष्मण पम्पायां बकः परमधार्मिकः । इत्यादौ बकादेः प्रातिपदिकत्वसंभवात् द्वितीया दुर्वारेति चेन्न । तत्राप्यस्त्यादिक्रियाध्याहारेणैव बोधात् । अत एव धिक् देवदत्तेत्यादौ धिगादियोगेऽपि न द्वितीया, संवोधनं क्रियायां विशेषणमिति सिद्धान्तितत्वेनास्मन्मतेऽध्याहृतक्रियाया एव विशेष्यत्वात् । अत एव शृणु देवदत्तो गायतीत्यत्र गानादेरेव कर्मत्वमनुभवसिद्धम् । एतेन
श्रुत्वा ममैतन्माहात्म्यं तथाचोत्पत्तयः शुभाः । इत्यत्रोत्पत्तीरिति द्वितीयावारणायार्षत्वं स्वीकुर्वन्त: परास्ता: । तत्राप्यध्याहृतायाः सन्तीत्यादिक्रियाया एव विशेष्यत्वात् । अथ प्रथमान्तस्य विशेष्यत्वाभावे
'सुरथो नाम राजाभूत्समस्ते क्षितिमण्डले ।
तस्य पालयतः सम्यक्' इत्यादौ तच्छब्देन सुरथपरामर्शानापत्तिरिति चेदेवं तर्हि. तुल्येऽपराधे स्वर्भानुर्भानुमन्तं चिरेण यत् ।
हिमांशुमाशु असते तन्मदिनः स्फुटं फलम् । इत्यादौ तच्छन्देन ग्रसनस्य परामर्शानापत्तिः । अत एव च भावप्रधानमाख्यातमिति यास्कवचनमप्युपपद्यते । नचाख्यातार्थेषु संख्याकालादिषु भावनायाः प्राधान्यमिति तदर्थः शङ्कयः । यत्रोभे भावप्रधाने भवत इति निरुक्तवचनमुपादाय यत्रोभे नामाख्याते भवतस्तत्र भावप्रधाने क्रियाप्रधाने इत्यर्थ इति तद्भाष्यव्याख्याया असंगतिः । किंच पठन् गच्छतीतिवत्पठति गच्छतीत्यपि प्रयोगापत्तिः । पाठा