________________
१० ग्रन्थः ]
वादसुधाकरः ।
३.
त्वं स्वीकृतं तस्य हि अधिकरणस्वरूपत्वे आधेयस्वरूपत्वे वा परस्परासंयुक्तघट भूतलसत्त्वेऽपीदानीं भूतलं घटवदिति प्रत्ययप्रसङ्ग इति विस्तरस्तत्रैव । किंचाश्रयत्वं नित्यमेवास्तु उत्पादविनाशव्यवहारस्तु निरूपितत्वाद्युत्पत्त्यादिकमादायैवास्तु वायुत्वरूपयोः समवायस्यैकत्वेऽपि रूपनिरूपितत्वाभावेन वायौ रूपवत्ताप्रतीत्यभाववत् ।
किंच लकारस्य यत्नार्थत्वे पचन्तं चैत्रं पश्येत्यादावपि यत्नमात्रबोधापत्तिः । तथाचानन्वयः । नहि तत्र यत्नस्याश्रयतासंबन्धेनान्वयः संभवति नामार्थयोरभेद इति नियमात् । नच तत्र शत्रादीनां कर्तरि शक्ति: शक्त्या स्थानिनामेव तार्किकमते वाचकत्वात् स्थान्यर्थेन निराका
तया 'कर्तरि कृत्' इत्यस्य तत्रानुपस्थितेः । अन्यथा प्रच्यमान इत्यत्रापि तदापत्तेः । अथ पचन्तमित्यादौ लकारस्य कर्तरि लक्षणेति चेत्सत्यं, पाकपदादीनां तद्वति लक्षणया पाको देवदत्त इत्यादेरप्यापत्तेः । किंच लाक्षणिकं नानुभावकं लाक्षणिकार्थस्य बोधे पदान्तरसमभिव्याहारः कारणमिति तार्किकसिद्धान्तात्स्वादिसमभिव्याहारस्य ताहशबोधं प्रति हेतुत्वकल्पने पचमानः पच्यमान इत्यनयोर्वैलक्षण्यानापत्तिः यत्तु किं करोतीत्यत्र किंविषयको यत्न इत्येवं यत्नार्थककरोतिना प्रश्ने पचतीत्युत्तरदर्शनादाख्यातस्य यत्नार्थत्वमिति, तत्र कृञो यत्नार्थत्वे यतिवदकर्मकत्वापतेः । किंच यत्नमात्रार्थत्वे क्रियते घटः स्वयमेवेत्यादौ कर्मवद्भावानापत्तौ यगाद्यनापत्तेः । कर्मावस्थायां या क्रिया सा कर्त्रवस्थायां चेत्तदैव ' कर्मवत्कर्मणा तुल्यक्रियः' इत्यस्य प्रवृत्तेः । कृतिश्च न घटादिनिष्ठा । प्रश्नवाक्ये यत्नविशिष्टे जिज्ञासितसंबन्ध उत्तरे त्वाश्रयत्वादिविशिष्ट इति वैषम्यात् । एतेन पचति पाकं करोतीति यत्नार्थककरोतिना विवरणादाख्यातस्य यत्नोऽर्थ इत्यपास्तम् । उक्तरीत्या कृञो यत्नार्थत्वाभावात् ।
किंचाचेतने स्वरसतः कर्तृपदप्रयोगाभावात्कृमो यत्नार्थत्वमित्येव भवतामाग्रहः स चापार्थः । बीजादिनाऽङ्कुरः कृतो रथो गमनं करोतीत्यचेतनेऽपि कृञः प्रयोगात् । अत एव भवतामचेतने कर्तृपदप्रयोगः । अतएव पचतीत्युक्ते कः किंजातीय इति कर्तृविषयकप्रश्नानुभवः सार्वजनीनः । किंच लः कर्मणि चेति सूत्रे कर्तृशब्दस्य कर्तृत्वपरतया कर्तृत्वं कृतिरेवेति तद्विरोधपरिहारे कर्तरि कृदित्यत्रापि कृत्यर्थत्वापत्तेः । तत एव कर्तरीत्यस्यानुवृतेः शब्दाधिकाराश्रयणेऽपि क्लेश एव ।