________________
वादार्थसंग्रहः।
(तृतीयो भागः) श्रीकृष्णाचार्यविरचितः वादसुधाकरः १०
-4-90cशाब्दे ब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ॥ इति वात्सल्यवान् बिभ्रत्तद्रूपं पातु माधवः ॥१॥ कोलाहलोऽत्र कुधियां न प्रत्यूहो विवेकिनाम् ।। कलिदोषो रमानाथदासमीष्टे न वीक्षितुम् ॥२॥
- आख्यातार्थधात्वर्थनिर्णयः। आख्यातस्य कृतौ शक्तिर्न तु कर्तरि कृत्याश्रयत्वमेव हि कर्तृत्वं, तब कृतिरूपमित्यनन्तकृतीनां शक्यतावच्छेदकत्वे गौरवादिति तार्किकाः । नचैवं रथो गच्छतीत्यादावचेतने रथे कृतेर्बाधादाश्रयत्वादी लक्षणायां लक्ष्यतावच्छेदकगौरवेण साम्यमिति वाच्यम् । अतिरिक्तशक्तिकल्पनापेक्षया क्लप्तायां शक्यसंबन्धरूपलक्षणायां गौरवाभावात् । ननु लक्षणाश्रयणे कथं वर्तमानत्वादीनामन्वयः युगपद्वृत्तिद्वयाऽनभ्युपगमादितिचेन्न । शक्ततावच्छेदकलक्षकतावछेदकयो दात् । लट्त्वेन हि वर्तमानत्वे शक्तिः । लकारत्वेन लक्षणेति । अत एव सकृदुच्चरित इति न्यायात्कथं कृतिवर्तमानत्वयोर्युगपद्बोध इत्यपि नाशङ्कथम् । लकारत्वलट्त्वरूपशक्ततावच्छेदकभेदात् । ननु तथापि लक्षणाज्ञानजन्याश्रयत्वाद्युपस्थितेः पृथक् हेतुत्वकल्पने गौरवमिति चेन्न, तद्विषयकशाब्दबोधं प्रति तद्विषयकवृत्तिज्ञानजन्योपस्थितित्वेनैव हेतुतया लक्षणाज्ञानस्य पृथग्घेतुत्वाऽभावात् । घटपदात्समवायेनाकाशस्मरणे तच्छाब्दबोधवारणाय वृत्तिज्ञानेति विशेषणम् । । ___ अथैवमनुकूलत्वादीनां संसर्गाणां शाब्दबोधविषयत्वं दुर्लभमिति चेन्न, घटपदादुपस्थितस्य घटत्वस्य विशेष्यतयाऽन्वयवारणाय तद्धर्मप्रकारकतद्विशेष्यकशाब्दबोधं प्रति तद्धर्मप्रकारकतद्विशेष्यकवृत्तिज्ञानजन्योप