________________
वादार्थसंग्रहः।
(द्वितीयो भागः) श्रीभवानन्दतर्कवागीशप्रणीतं षट्कारकविवेचनम् ६.
नत्वा कृष्णपदद्वन्द्व कारकाद्यर्थनिर्णयः । श्रीभवानन्दसिद्धान्तवागीशेन वितन्यते ॥
कारकत्वविवेचनम् । तत्रक्रियानिमित्तत्वं कारकत्वम् इति न सामान्यलक्षणं, संप्रदानादेरनुमतिप्रकाशनद्वारेव तण्डुलादिसंपादनद्वारा संबन्धिनोऽपि पाकादिक्रियानिमित्तत्वेन संबन्धिनि मैत्रस्य तण्डुलं. पचतीत्यादी मैत्रादावतिव्याप्तेः । किंतु
विभक्त्यर्थद्वारा क्रियान्वयित्वं मुख्यनाक्तसाधारणं कारकत्वम् । क्रियानिमित्त
त्वसहितं मुख्यमिति। स्तोकं पचतीत्यादौ क्रियाविशेषणेऽतिव्याप्तिवारणाय विभक्त्यर्थद्वारेति । मैत्रस्य पचतीत्यादौ मैत्रसंबन्धित्वं न पाकेऽन्वेति, षष्ठयर्थस्य नामार्थसाकाङ्कतया क्रियाया अपि कर्मादिकारकसाकाङ्कतया परस्पराकाडाविरहात् । किंतु तण्डुलमित्यादिपदाध्याहारेणैव मैत्रस्य तण्डुलं पचतीत्येवान्वयबोधः।
ओदनस्य भोक्ता मैत्रस्य पाक इत्यादौ कर्मत्वकर्तृत्वार्थिका षष्ठी कारकविभक्तिरेव 'कर्तृकर्मणोः कृति' इत्यनेन तद्विधानात् । अत एव संबन्धस्य कारकत्वं नास्तीति शाब्दिकाः । __ यदि-गुरुविप्रतपस्विदुर्गतानां प्रतिकुर्वीत भिषक् स्वभेषजैः' १ नास्ति क्रियायोगाभावादितीति पाठः।