________________
प्रमाण प्रकरणम् ।
सज्जा हि स्मर्यमाणापि प्रत्यक्षत्वं न बाधते । सञ्ज्ञिनः सा तटस्था हि न रूपाच्छादनक्षमा ॥ इति । ( इति बौद्धवादप्रकरणम्) । (१)
74
प्राभाकरास्तु अनुभूतिः प्रमाणम् । स्मृतिव्यसम्बन्धिसञ्ज्ञिनिर्विकल्पको डोधितसंस्कारोत्थस्मृतिपथपचिकतया परोक्षैव सञ्ज्ञा तथापि सञ्ज्ञिनो घटादेर्विकल्प्य मानस्य (2) प्रत्यक्षत्वं न बाधते परोक्षतां नापादयतीत्यर्थः पराकृत इत्याश का तदशक्के रित्याह । न रूपाच्छादनक्षमेति । सञ्ज्ञिन: प्रत्यक्षत्व तिरोधानाशक्तेरित्यर्थः । अशक्तौ हेतुI माह । सा तटस्था हीति । हि यस्मात् सा सञ्ज्ञा तटस्था स्मृतिद्वारा इन्द्रियस्य स्वसम्प्रयुक्तसञ्ज्ञिविकल्पजनने सहकारित्वेन सन्निहिता न तु समबलत्वेनेति यावत् । अन्यथा स्मृतिसम्प्रयोगयेोस्तुल्यबलत्वे मिश्रकार्योत्पत्तौ परोक्षत्वापरोक्षत्वसङ्करप्रसङ्गः । तस्मात् पूर्वकालतास्मृति: प्रत्यभिज्ञायामिष सञ्ज्ञास्मृतिरपी न्द्रिय सहकारितया न सञ्ज्ञिविकल्पे प्रत्यक्षतां बाधते । यथा सुरभि चन्दनमित्यादा प्राणजन्या गन्धबुद्धिरिन्द्रियान्तरसहकारिणी गन्धविशिचन्दनविकल्पस्य चाक्षुषत्वं स्पार्शनत्वं वा न विरुन्धेत् तद्वदिति सुष्ठुक्तं तटस्थेति ।
अथ प्राभाकरीचं प्रमाणसामान्यलक्षणं दूषयितुमुपन्यस्यति । प्राभाकरास्त्विति । अनुभूतिः प्रमाणमित्यत्र भावसाधनोऽयं प्रमाणशब्दः । येयमिन्द्रियलिङ्गादिजन्या संघित् सानुभूतिरनुभवः । सा सर्वा प्रमाणं प्रमिति
(१) ( ) एतन्मध्यस्थो नास्ति B पु· । (२) सविकल्पविषयस्य ।
a -No 12, Vol. XXI.-December, 1899.
६८१