________________
सटीक गर्किकरक्षायाम् ।
निःश्रेयस फलत्वेनाक्षचरण (१) पक्षिलमुनिप्रभृतयो वर्णयन्ति । यथा प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्वान्तावयव तर्क निर्णयवादजल्पवितण्डा हेत्वाभासच्छलजातिनिग्रहस्यानानां तत्वज्ञानान्निःश्रेयसाधिगम इति । तदानीं पदार्थ लक्ष्यन्ते समानासमानजातीयव्यवच्छेदकधर्मवत्तया प्रदर्श्यन्त इत्यर्थः । ननु वधारणं याथात्म्येन निर्णयः । निश्चितं श्रेयो निःश्रेयसं मोक्षः । अचतुरादिना निपातनात् साधुः । तत्स्वरूपे वादिविप्रतिपत्तेर्विवक्षितं लक्षणमाह । आत्यन्तिकेति । एतचोपरि विवेषयिष्यते । प्राहुरित्यस्य प्रशब्दस्य सामर्थ्यीप्रतिपादनमा नोक्तिमात्रमित्याह । वर्णयन्तीति । तस्य काङ्क्षा पूरयति । अक्षचरणेति । अक्षचरणपक्षिला सूत्रभाष्यकारी प्रभृतिशब्दाद्वार्त्तिककारादिसंग्रहः । तत्र सूत्रं संवादयति । यथा प्रमाणेत्यादि । प्रमाणं विना प्रमेयाद्यसिद्धेः । विषयं विना प्रमाणाप्रवृत्तेः । असन्दिग्धस्याप्रतिपित्सितत्वात् । सन्दिग्धस्यापि निःप्रयोजनस्याप्रतिपित्सितत्वात् । प्रतिपत्तेश्च दृष्टान्तमुखत्वात् । अवयवादिनियमस्य सिद्धान्तानुसारित्वात् । प्रमाकरणशरीनिर्वर्तकाङ्गत्वात् । प्रमाणानुग्राहकत्वात् । तत्फलत्वात् । तस्यापि कथासाध्यत्वे वादस्य तस्वनिर्णयफलत्वात् । जल्पस्योभयपक्षसाधनवत्वसाम्यात् । वितण्डायाः कथापारिशेष्यात् । निग्रहहेतुषु सर्वथा हेयत्वात् । दोषेष लघुत्वात् फलत्वाच्चेति प्रमाणादिपदार्थोद्देशक्रमः । यत्तदेोः
४
६१
(१) अक्षपाद - पा.
पु.
(२) न्यायम्यादिमं सून - मित्यधिकं पु. |