________________
सटीकतार्किकरक्षायाम्
३२२
इति । तृतीयस्तु तस्मिन्नेव दृष्टान्ते तथैव प्रत्युक्त घटरूपं तर्हि भविष्यतीति । यथा च साधर्म्यदृष्टान्तत्वेन प्रत्युक्ते माभूदयं वैधर्म्यदृष्टान्तोऽस्त्विति । चतुर्थस्तु यत्कार्यं तद्बुद्धिमत्कर्तृपूर्वकं यथा घट इत्युदाहृते पूर्ववद्विशेषण वैयर्थ्यातौ तत्परित्यागः । पञ्चमस्तु यत्प्रयत्नकार्यं तदनित्यं यथा घट इत्युत प्रयत्नविशेषणस्य वैयर्थ्याको त्यागः । षष्ठस्तु यथा स्थूलपदानर्थक्येोद्भावने तस्य त्यागः ॥
दूषणहानिस्तु स्वरूपता विशेषणतश्च द्विधा तत्रादयो यथा । श्रनित्यः शब्दः कृतकत्वादित्युक्ते अनैकान्तिकत्वाद्वावने निरनुयेोज्यानुयोगत्वेन दूषिते स्वरूपासिद्धिस्तर्हति । द्वितीयस्तु स्वरूपासिद्विपरिहारे व्याप्यत्वासिद्विस्त हति ॥
ननु यद्दर्शनेनायमुक्तं त्यजति स एव दोषो
शब्दानामित्यर्थः पूर्ववत् । यथा च साधर्म्येति । श्रयणुकपान्यान्तत्वाभावे यदनित्यं न भवति तत्प्रत्यक्षमपि न भवति यथा द्व्यणुकरूपमिति । अयमेव व्यतिरेकदृष्टान्तः । या एवमपि दृष्टान्ते दूषिते तर्हि व्यतिरेकेणापि परमारूपवदित्यर्थः ।
निरनुयेोज्यानुयोगत्वेन अविद्यमानदोषोद्भावनत्वेन । स्वरूपासिद्धिपरिहारे ऽनभिव्यञ्जकप्रयत्नानन्तरभावि त्वेन हेतुना शब्दस्य कृतकत्व हेत्वसिद्धपरिहारे ऽभिहिते सतीत्यर्थः ॥
१०४