________________
सटीकतार्किकरक्षायाम्
त्पत्तिसम इत्यर्थः । अनुत्पन्नस्य स्वकार्यासामथ्यं द्वारं विरोधासिद्धी आरोप्ये उद्धारसूत्रं तथाभावादुत्पन्नस्य कारणेोपपत्तेर्न कारणप्रतिषेध इति । उत्पन्नस्य शब्दादेस्तथाभावात् पक्षादिभावान्नाश्रयासिद्धिः । श्रनुत्पन्नस्यापि शब्दत्वात् कथं तद्व्यवच्छेद इति चेत् न तस्य तुच्छत्वेनाशब्दत्वात् तथा चाविषयवृत्तित्वम् । असिद्विदोष एव न त्वपक्षीकृतस्येति । यदा कदाचिदुत्पन्नस्यापि पतनादेर्याबद्द्रव्यभाविना गुरुत्वेन व्याप्तेनात्पत्तेः पूर्वमसिद्धिदाषः तथा च युकाङ्गत्यागः । व्याप्तिप्रकारमनपेक्ष्य दोषोद्भावनात् साध्यदृष्टान्तद्वारिकयोरपि तथा व्यापकत्वरूपं व्याप्यत्वरूपं चानपेक्ष्य प्रवृत्तेः । अज्ञानद्वारिकायां त्वविषयवृत्तित्वम् अज्ञानं हि पक्षादेर्देोषः न त्वनुपन्यस्त त्वेनापक्षादिभूतस्येति । एवमनङ्गीकारे सर्वत्र स्वव्याहतिरूहनीयेति ॥ १८ ॥ सन्देह हेतु सद्भावात् सति निर्णयकारणे । संशयस्य प्रसङ्गो यः स संशयसमो मतः ॥ १६ ॥
३८०
वायुः सर्वत्र सामान्यनिर्देशात् नपुंसकेोक्तिः । तस्य तुच्छत्वेन भावप्रतियेोगिनमित्युक्तत्वेन (!) साध्यदृष्टान्तद्वारिकयोरपि तथा पार्थिवत्वस्य यदा कदाचिदुत्पन्नेन गन्धवत्वेन व्याप्तत्वात् यदा कदा चिदुत्पन्नस्य गुणवत्त्वस्य द्रव्यत्वेन व्यासत्वाच्च पूर्ववद्युक्ताङ्गहानिरित्यर्थः । अत एवोपपादयति | व्यापकत्वरूपमिति । सर्वत्र अषृस्वपि पक्षेषु ॥ १८ ॥
396