SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ सटीकतार्किकरतायाम् अनवस्थाभासवाचः प्रसङ्ग समजातिता ॥ १६ ॥ इयमपि कृतिचतिसाधारणी जातिः तथा च साधनमुत्पादकं ज्ञापकं वा सिद्धिश्च वरूपती ज्ञानतश्च । दृष्टान्तस्य कारणानपदेशादिति सूत्रखण्डे दृष्टान्तपदं स्वरूपता ज्ञानतश्च सिद्विमात्रमुपलक्षयति । कारणं ज्ञापकं कारकं वा कृतैा तावत् । अनुमितिज्ञानहेतूनां पक्षहेतुदृष्टान्तानां सिद्धानामपि कारणान्तरं वाच्यम् । न हि ते नित्याः कार्यस्यापि सदातनत्वप्रसङ्गात् न च तस्मादुत्पदान्ते स्वात्मनिवृत्तिविरोधात् प्रसतः कारणत्वानुपपत्तेः कार्यस्यापि स्वत एवात्पत्तिप्रसङ्गाच्च एवं तत्कारणस्यापीत्यनवस्येति । २०४ दृष्टान्तहेत्वादावित्यादिशब्देन पक्षी गृह्यते । स्वरूपतः उत्पत्तितः । पक्षहेत्वारेतजातिप्रवृत्तिः सूत्रकारस्याननुमतेत्याश स्याह । दृष्टान्तस्येति । सिद्धानामपि पक्ष हेतुदृशन्तानामनवस्थादुस्थत योत्पादकज्ञापकानभिधानात् प्रत्यवस्थानं प्रसङ्गसम इति सूत्रार्थः । नित्या अनाथनन्ताः । कार्यस्यापीति । करणसामान्या अनादित्वे तथाविधस्य कार्यस्याप्यनादित्वप्रसङ्गादित्यर्थः । असतः कारणत्वे सति स्वोत्पत्तेः पूर्वमसतः पक्षादेः स्वहेतुत्वायोगादित्यर्थः । एवं तत्कारणस्यापीति । उक्तेन प्रकारेण पक्षादीनां कारणवत्वे सिद्धे तेषामपि कारणानां कारणान्तरं वाच्यमेवं तेषामपीत्यनवस्थाप्रसङ्ग इत्यर्थः । पूर्वत्र कृतिपक्षे उत्तरत्र ३६०
SR No.034263
Book TitleTarkik Raksha Sar Sangraha
Original Sutra AuthorN/A
AuthorVaradraj
PublisherMedical Hall Varanasi
Publication Year1903
Total Pages437
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy