________________
जातिनिरूपणम् । त्मा क्रियाहेतुगुणयेोगित्वात् लोष्टवत् तूलबदित्यत्र क्रिया हेतुगुणयोगित्वं हेतुः यथा क्रियावतो लोष्टतूलयोर्यत्तु लघुत्वे व्यभिचरति तथा क्रियावत्त्वमपीति । धर्मान्तरस्य साध्यधर्मं प्रति व्यभिचारो यथा अनित्यः शब्दः कृतकत्वादिति प्रयोगे यथा प्रमेयत्वमाकाशघटयोरनित्यत्वं व्यभिचरति तथा कृतकत्वमपीति । धर्मान्तरस्य धर्मान्तरं प्रति व्यभिचारो यथा द्रव्यत्वस्य पयःपावकयेोरुष्णत्वव्यभिचारात् कृतकत्वस्याप्यनित्यत्वा व्यभिचार इति । अनैकान्तिकाभासोयं दुष्टत्वमूलं तु अव्याप्तस्य व्यभिचारान्न व्याप्तस्यापि व्यभिचारः । तथाभ्युपगमे वा प्रतिषेधहेतेारप्यन्यव्यभिचाराद्वाभिचारः स्यादिति व्याघातः । प्रविषयवृत्तित्वं चान्यव्यभिचारादन्यस्यासाधकत्वापादनादिति ॥ १२ ॥
२६५
सह वर्तते मनसि वर्तत एवमित्यर्थः । आत्मनि क्रियाहेतुर्गुणः प्रयत्नः प्राणादिव्यापारहेतुत्वात् लोष्टे वेगः गुरुलघुत्वविशेषतदभावौ अनैकान्तिकचादनाभासोयं पक्ष ari विनैव वृत्तिर्नाम पक्ष विपक्षयोर्वृत्तिः भवत्यतः पक्षत्रय वृत्तित्वादनैकान्तिकचोदना भासायं सत्यपक्षवृत्तित्वाareerfers इत्यर्थः । अव्याप्तस्येषृसाध्यव्यभिचारिणो विभागजत्वादेः प्रतिषेधहेतोरपीति धर्मान्तरादिकं प्रति व्यभिचाराजातिवादिहेतोरप्यसाधकत्वरूपसाध्यव्यभिचारः स्यादित्यर्थः ॥ १२ ॥
१८७