________________
कूप
जातिनिरूपणम् । तरूपवद्धेतुमत्त्वेनासिद्धिः कारणं वर्ण्यसमायाः । ततश्चेयमेवं प्रवर्तते किं पक्षवदसिद्वार्थहेतुमान् सपक्षःसिद्धार्थहेतुमान् वा पूर्वन्त्र सपक्षे ऽपि साध्यधर्मवन्तया वर्ण्यः साध्यः स्यादित्यर्थः । अन्यथा साध्यधर्मस्यासिद्धत्वसाध्यविकलो दृष्टान्तः स्यात् उत्तरत्र पक्षधिवक्षितहेतुमत्तया दृष्टान्तः साध्यः स्यात् । अन्यथा तादृशस्य हेतोरभावात् साधनविकलः स्यादिति । एवं रूपान्तरेषु च त्रिष्वपि प्रवृत्तिकारः स्वयमेव बोद्धव्यः । साध्यसाधनवैकल्ये दृष्टान्तस्यारोप्ये । अतिपीडायां हेतोर्विरुद्धत्वासाधारणत्वदुष्टत्वे मूलं तु यथे। सावर्ण्यत्वप्रतिषेधहेतावपि सुवचत्वात् त्वव्याघातः । अविषयवर्तित्वं च पक्षवर्तिहेतुरूपाणां सपक्षवर्तिन्यपि सारणात् । प्रयुक्ताङ्गाधिकत्वं वा सवक्षवर्तिनो हेतार्न युक्तानामेवासिद्धार्थत्वाद्यङ्गानामुरकरणादिति ॥ ● ॥ ऽऽ ॥
ङ्गादिति बेोद्धव्यमित्यर्थः । अतिपीडायां हेत्वाभासपर्यन्तचिन्तायां विरुत्वा साधारणत्व साध्यविकलः सपक्षी विपक्ष इति तत्रापि वर्तमानो हेतुः पक्षविपक्षयोरेव वर्तत इति विरुद्धः । साध्यधर्मवति सपक्षेऽप्यवर्तमानो हेतुः पक्षमात्रवृत्तिरसाधारणो भवत्यतस्तदुभयमारोप्यमित्यर्थः । यथेोक्तवर्ण्यत्वस्येति । नेदं स्वसाध्यसाधकं विरुद्धत्वादसाधारणत्वादिप्रतिषेधहेतेाः अविपक्षविवक्षितरू पाणां सपक्ष सत्त्वमसत्त्वं विकल्प्य उभयथापि वर्ण्यत्वस्य सुवचत्वादित्यर्थः ॥ ७ ॥ ऽऽ ॥
१८