________________
छलनिरूपणम् ।
२३९
धाय गगनतत्कुसुमयोर्निदर्शितयोर्न व्याप्यसिद्धिरिति दृष्टान्ताभासमात्रमन्त्रेति चेत् न अत्राप्यनुपदर्शितव्याप्तिको हेतुः स्यात् प्रतिपीडायां व्याप्यत्वासिद्विरेव । एवं च वैधर्म्यदृष्टान्ते ऽपि साध्याव्यावृत्तेरसाधारण्यं साधनाव्यावृत्तेर्विशेवः साधारण्यं वा उभयाव्यावृत्तावाश्रयाभावे ऽपि व्याप्यत्वासिद्धिः । ततश्च दृष्टान्ताभासानां हेत्वाभासान्तर्भावान्ना सूत्रितत्वोपालम्भ इति ॥ ६२ ॥ ९३ ॥
हलं सामान्यतो लक्षयति ।
यामिति । कृतकत्वानित्यत्वयव्याप्तिसङ्गावे ऽपि निर्दिषृहशन्तव्यत्तयोरनुपदर्शितव्याप्तित्वमात्रेण कथञ्चिद् व्याव्यत्वासिद्धिरेवेत्यर्थः । अथ साधम्येहान्ताभावद् वैधदृष्टान्ताभासानामपि हेत्वाभासान्तर्भाव एवेत्याह । एवं च वैधम्र्म्येति । तत्र पूर्वोक्तसाधनविकलादाहरण (२)मेंवात्र साध्याव्यावृत्तस्योदाहरणं साध्यविकलादाहरणं (३) च साधनाव्यावृत्तस्येति द्रष्टव्यम् । उभयेत्यादि स्पष्टम् । उपसंहरति । ततति । इति हेत्वाभासपदार्थः ॥ ९२ ॥ ९३ ॥
ननु छलस्य बहुशो लक्षणानि वक्ष्यन्ने तत् किमुच्यते किचिदर्थमित्यादिनेत्यत आह । छलमिति । सामान्यलक्षणं विना विशेषलक्षणावृतेः प्रथमं सामान्यलक्षणमुच्यत इत्यर्थः ।
ू
(१) अत्यन्त पीडायां - पा. B पु.
(२) शब्दा नित्य आकाशविशेषगुणत्वात् ग्रात्मवत् । (३) प्रनित्यः शब्दः प्रत्यक्षत्वात् सामान्यवत् साधारण्यम् अनि
त्यः शब्दः श्रात्रग्राह्यत्वात् शब्दत्ववत् ।
१००