________________
सटीकतार्किकरक्षायाम्
२२२
यथा शुक्लोऽयं शङ्खः शङ्खत्वादितरशङ्खवदिति प्रयोगे पीतत्वेन प्रत्यक्षोपलब्धेः शुक्ल एव कथं स्यादिति । तमिमं प्रकरणसमं विरुद्वाव्यभिचारीति केचिद्वापदिशन्ति यथाहुः ।
यत्राप्रत्यक्षता वायोररूपित्वेन साध्यते । स्पर्शात् प्रत्यक्षता चासैौ विरुद्वाव्यभिचारिता ॥ इति । तदुक्तम् । यस्मात् प्रकरणचिन्ता स निर्ण
1
दाहरति । श्रथेति । एवमात्मनानात्वसाधनस्य व्यवस्थादेरतवाक्येन प्रतिरोध इत्याद्याम् । नन्वस्य ( () विरुद्धाव्यभिचारिणः परोक्काद्भेदे पञ्चैवेतिनियमभङ्गादित्याश का भेदमाह । तमिममिति । अभेदव्यक्तये (-) परोक्तमुदाहरणं दर्शयति । यथाहुरिति ।
अन्न वायोरप्रत्यक्षत्व साधकहेतोररूपित्वस्य प्रत्यक्षत्वे हेतुना स्पर्शवत्वेन प्रतिरुत्वाद्विरुड: प्रतिरुड: सत्यव्यभिचारामतीतेरव्यभिचारी चेति तस्यैव तथा व्यपदेशात् स एव स इत्यर्थः ।
अथ स्वोक्तप्रकरणसमलक्षणे सूत्रसम्मतिमाह । तदुक्तमिति । यस्माद्वादिप्रयुक्ताद्धेतोरुपरि प्रकरणचिन्ता विपरीतसाध्यसाधक हेतुविचारः प्रवर्तते स निर्णयार्थ स्वसाध्यसिद्ध्यर्थमुपदिष्टो वादिहेतुः प्रकरणेन प्रतिहेतुना समबलत्वात् प्रकरणसम उच्यत इति सूत्रार्थः । अत्र
(१) अस्य प्रकरणसमस्य विरुद्वाव्यभिचारीतिव्यपदेशात् प्ररकसम एव विरुद्धाव्यभिचारोति भावः ।
(२) प्रकरणसमात् ।