________________
सटीकतार्किकरतायाम्
तत्र हेत्वाभासेषु सव्यभिचारो नामानेकान्त : (१) एकत्रान्तो निश्चयो व्यवस्थितिर्नास्तीति । तदुक्तम् । अनैकान्तिकः सव्यभिचार इति । स च साधारणेोऽसाधारण इति च द्विविधो भवतीति ॥ ६० ॥ ऽऽ ॥
१८
ननु व्यवस्थान (मतिलध्यान्यत्रापि वृत्तिर्व्यभिचारः । तत्र साधारणस्य पक्षसपक्षलक्षणस्थानाति क्रमेण विपक्षे ऽपि वृत्तर्भवति व्यभिचारिता () । पक्षमात्रवृत्तेरस्वसाधारणस्य कथं व्यभिचारिता । तस्य हि स्वस्थानवृत्तिरेव सहुचिता दूरे ऽन्यत्रापि वृत्तिरित्याशङ्कामपनुदन् विधाद्वयतेव विविच्य दर्शयति । श्राद्योन्ययादनेकान्तः पक्षश्रयकृताश्रयः (४) ॥ ८१ ॥
तत्रेत्यस्य प्रकृतिप्रत्ययार्थी दर्शयन लक्ष्यलक्षणपढ़े विविच्य योजयति । तत्र हेत्वाभासेष्विति । तत्र विधादयव्याप्तिज्ञानाय लक्षणपदं व्युत्पादयति । एकश्रेति । निश्चयवाचिनान्तशब्देन नियतत्वसाम्याद् व्यव स्थितिर्लक्ष्यते तेन साधारणस्य पक्षसपक्षयेोरिव विपक्षेऽपि प्रवृत्तेरसाधारणस्य सति सपक्षे पक्षमात्रवृत्तेर्विपक्षादिवत् सपक्षादपि सर्वस्मात् व्यावृत्तेश्व स्वसीमातिकमेण व्यवस्थितत्वादनैकान्तिकत्वमित्यर्थः । अत्र सूत्रं संवादयति । तदुक्तमिति ॥ ८० ॥ ऽऽ ॥
अथ यथेrror तरश्लोकस्य पैौनरुत्तयमाशङ्क्य शङ्कोत्तरत्वेन अस्यैव विचारणान दोष इत्याशयेन शङ्का पूर्वकमवतारयति । नन्विति ।
aa
(१) अनैकान्तिकः - पा० C. | (२) स्वस्थान- पा. C. 1 (३) व्यभिचारः - पा· B पु. ( ४ ) कृतान्वयः - पा. A पु० ।